SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [ है० २.१.६१.] द्वितीयः सर्गः।। १५३ काराभ्वम् ॥ दनादिभिरिति किम् । एतद्भुवः ॥ पूर्वेणैव सिद्धे नियमार्थमिदम् । एतैरेव भुवो नान्यैरिति ॥ तक्ष्णः । चिकीः। स्यादिविधौ च । अर्वाणः । वपूंपि। इत्यत्र "णपम्" [६०] इत्यादिना णत्वषत्वानामसत्त्वादनोकालोपैः। पस्य रुरुपान्त्यदीर्घत्वं च स्यात् ॥ पक्व । स्यादिविधौ च । अघलून्युः । इत्यत्र "क्तादेशोषि" [६१] इति वनयोरसत्वाद्धुटि कत्वं त्याश्रित उर् च स्यात् ॥ अपीति किम् । वृक्ण। अत्र क्तादेशस्य नस्य सत्त्वाद् “यजसृज" [२,१,८७] इत्यादिना धुट्रिमित्तः पो न भवति । कत्वे त्वसत्त्वात्तद्भवत्येव ॥ परे स्यादिविधौ चेत्येव । लग्ना । अनास्यादिविधौ पूर्वसूत्रकार्ये "अघोपे प्रथमोशिटः" [१,३,५०] इति प्रथमत्वे नत्वस्यासत्वाभावादघोपनिमित्तः प्रथमो न भवति॥ अश्वा लिलिक्षन्ति विमूर्छदात्मद्युतीः सजशाद्वलशङ्कयेह । तमः पिपिक्षोररुणस्य दीव्यत्तोत्रा गिरो नो गणयन्ति धुर्याः ३९ ३९. अश्वा रवितुरगा लिलिक्षन्ति सिस्वादयिषन्ति । काः । इह पूर्वाचले विमूर्छदात्मद्युतीः । गिरौ मणयो वर्ण्यन्त इति कविरूढिरित्यस्य मणिमयशिलासु विमूर्छन्त्यः प्रतिफलन्यो या आत्मद्युतयः स्वकान्तयस्ताः । कया। सजूःशाद्वलशङ्कया। शाद्वलशब्देनात्रोपचाराद्धरिततृणान्युच्यन्ते। सजूंषि मिथः संबद्धान्यतिसान्द्राणि यानि शाद्वलानि हरिततृणानि तेषां या शङ्का भ्रमस्तया। गिरौ हरितसंभवात्प्रतिफलितस्वकान्तीनां १ बी एफ °शाङ्कल'. २ एफ क्षोरुरु. ३ सी °न्ति धूर्याः । १ ए सी डीम् । पू. २ एरलुक् । सस्य . ३ बी पः। सस्य च लुप् उपा. सीपः । सस्य रु उपा. डी पः । सस्य. ४ डी उरेव स्या. ५ सी डी त्वे स. ६ सी त्वे त्व. ७ एफ नतस्य स. ८ वी तुरङ्गा लि. ९ बी एफ शाडल. १० सी डी समिथः . ११ बी एफ शाडला. १२ सी डी तिकलि'. २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy