________________
१५२
व्याश्रयमहाकाव्ये
[ मूलराज: ]
इव । चिकीचिकीर्षुरुदयेन पूर्वदिशा संबन्धीभवन्नित्यर्थः । योपीनः स्वाम्यन्योढां कन्यां तस्मिन्मृते सति पुनः परिणयति सोन्धकारतुल्यमपवादवादिनमहितजनं काराभ्वं गुप्तिस्थं करोति । तथैतद्भुवो रविप्रभवा भासस्तक्ष्ण वर्धकेष्टङ्का नु टङ्किका यथा पाषाणादि विदारयन्ति तथैनः पापं दलयन्ति । यतः पुण्यस्य धर्मस्य करवोग्रेग्व इव सर्वलोकस्य धर्ममार्गे प्रवर्तकत्वात् ॥
पूर्वाचले धातुवपूंषि वप्राण्यर्वाण उद्यान्त्यघलून्युरंशोः । पकाम्रताम्रेह तर्दहिवृक्णधूल्य भ्रलमेव विभाति संध्या ॥ ३८ ॥
-
३८. अघनिमिच्छति लोकानामिति सापेक्षत्वेपि नित्यसापेक्षत्वेनैका - र्थ्यात्क्यनि अघलून्युर्लोकपापच्छेदे च्छोरंशो रवेरर्वाणोश्वाः पूर्वांचल उदयाद्रिस्थांनि वप्राणि रोधांस्युद्यान्त्युल्लङ्घन्ते । कीहंशि । धातव एव वपुर्येषां तानि धातुमयानि । ततश्चेह पूर्वाद्रौ पक्काम्रताम्रा परिपक्काम्रफलवदारक्ताकाशस्था संध्या भाति । कीदृक् । तेषामर्वणां येंहयः खुरास्तैर्वृक्णोत्खाता या धूली धातुरेणुः सेव ॥
अवचिच्युः । निन्युः । इत्यत्र " योनेकस्वरस्य " [ ५६ ] इति यः ॥ वस्वः । इत्यत्र “स्यादौ व:" [ ५७ ] इति वः ॥
॥
चैत्याग्रण्यम् । जगत्वम् । इत्यत्र “विबुत्ते:'" [ ५८ ] इत्यादिना यव असुधिय इति किम् । सुधियः ॥
हृन्भ्वः । पुनवः । वर्षाभ्वः । करभ्वम् । इत्यत्र " हन्पुनर् " [ ५९ ] इत्यादिना वः ॥ करशब्देनापीच्छन्त्यन्ये । करभ्वः ॥ काराशब्देनाप्यन्ये ।
१ बी बी २ बी प्रभावा. डी प्रभूता भा. ३ एर्वस्य लो. सी डी र्वंस्य. ४ डी लूनमि ५ डी स्थाने व ६ एफ आकाशलग्नाका ७ डी एफ् णुः सैव. ८ डीना य्वौ ॥ ९ ए सी डी वौ । दृ. १० एफू काराभ्व,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org