________________
[है० २.१.५५.] द्वितीयः सर्गः । सिद्धस्त्रियः । इत्यत्र "स्त्रियाः" [५४] इति-इयं ॥ स्त्रियम् स्त्रीम् । स्त्रियः स्त्रीः । इत्यत्र “वामशसि" [५५] इति वा-इय् ॥ वस्वोवचिच्युः कुसुमानि चैत्याग्रण्यं जगत्प्वं सुधियोथ निन्युः। दृन्भ्वोपि वर्षाभ्व इवाभिलङ्घयोपलभ्य कारभ्वमिव प्रभातम् ३६
३६. कारो निश्चयस्तत्र तेन वा भवति कारभूरग्रेगूस्तमिव यथाप्रेगूर्मार्गदर्शक: स्यात्तथा सर्ववस्तुदर्शकं प्रभातमुपलभ्य प्राप्य सुधियः पुष्पोच्चयदक्षा मालाकाराः कुसुमान्यवचिच्युरुञ्चितवन्तः । अथ पुष्पावचयानन्तरं जगत्वं लोकानां पवित्रकं चैत्याग्रण्यं चैत्येषु देवायतनेषु श्रेष्ठं महाप्रभावत्वेन सर्वलोकपूज्यं जिनमन्दिरादि कुसुमानि निन्युविक्रयार्थ प्रापयन् । किं कृत्वा । हन् हिंसन भवति हुन् ः । इन्भ्वोपि सविषकीटकानपि वर्षाभ्व इव दर्दुरानिवाभिलङ्घयोत्प्लवनेनातिक्रम्य । अहमॅग्रिकया शीघ्रं गत्वेत्यर्थः । यतो वस्वो वसु द्रव्यमिच्छन्तः। प्रभाते हि मालिकाः पुष्पाण्युचित्य विक्रयणार्थ देवप्रासादेषु नयन्ति। शीतलकालत्वात् हन्भ्वश्च बाहुल्येन विचरन्ति ॥ चिकीविधुढेन्द्रदिशः पुनाः करोति काराभ्वमिनोन्धकारम् । एतद्भुवः पुण्यकरभ्व एनस्तक्ष्णो नु टङ्का दलयन्ति भासः॥३७॥
३७. इनो रविरन्धकार कारा गुप्तिः कारेव कारा गुहाकूपादि तत्र भवति तिष्ठति यस्तं करोति । कीदृक् सन् । विधुनेन्दुनोदयकाले च संबन्धादूढेवोढा परिणीतेव येन्द्रदिक्पूर्वा तस्याः । पुनर्वाः पुनरूढाया
१ सी डी य । स्त्रियः ।. २ सी डी रो विनि. ३ एफ °लाकराः. ४ ए च्युरचि. बी च्युरवचित. ५ एफ क्रयणार्थ. ६ एफ न्भू दृ'. ७ एफ ममिक. ८ एफ वसुं द्र. ९ बी सी वप्रसा. १० बी एफ °ले सं° सी डी लेव सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org