SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५० ब्याश्रयमहाकाव्ये [मूलराजः] अमुमुयङ् । इत्यत्र "मादुवर्णोनु” [४७] इति-उवर्णः ॥ अन्विति किमर्थम् । अमुयोरित्यत्र एत्वादिषु कार्येषु कृतेपूवर्णो यथा स्यादित्येवमर्थम् ॥ अमुना । इत्यत्र “प्रागिनात्" [१८] इति उवर्णः ॥ अमी । इत्यत्र “बहुष्वेरीः" [४९] इति ईकारः ॥ निया । लुवा । अधीयन्तः । स्तुवन्तः । इत्यत्र “धातोरिवर्ण" [५०] इत्यादिनेयुवौ ॥ ईयुः । इत्यत्र “इणः" [५१] इति-इय् ॥ यवक्रियः । कटगुवः । शिश्रियुः । इत्यत्र “संयोगात्" [५२] इति यवोरपवादावियुवौ ॥ धातुना संयोगस्य विशेषणादिह न भवति । उन्यः । असकृल्लः ॥ पश्यन्ति सिद्धस्त्रिय उद्बुवोर्कमारानुवन्तं किल पादपातैः । आशास्त्रियः स्त्रीरिव पद्मिनीश्च धुश्रीस्त्रियं स्त्रीमिव खश्रियं च ३५ ३५. अणिमाद्यष्टविधैश्वर्यवन्तः सिद्धास्तेषां त्रिय उदूर्वा भ्रुवो यासां ता उद्भुवः सत्योकं पश्यन्ति । यतः पादपातैः किरणनिक्षेपैरथ च पादेषु पातैश्चरणप्रणामैः कृत्वारानुवन्तं किल प्रसादयन्तमिव । काः । आशास्त्रियो दिगङ्गनास्तथा पद्मिनीः स्त्रीरिव। तथा रविकिरणपञ्चशती स्वर्गमप्युद्योतयतीतिप्रसिद्धेषुश्रीस्त्रियं स्वर्गलक्ष्मीमेवाङ्गनां खश्रियं चाकाशलक्ष्मी च स्त्रीमिव । योपि कान्तः प्रेमानुविद्धः स्वकान्ताः पादपातैराराधयति तमन्यस्त्रियोहो अस्य स्वकान्तासु प्रेमानुबन्धो यद्यस्माकमपीदृशः पतिः स्यादित्यभिलाषेणोद्भुव: पश्यन्ति ॥ उद्भुवः । आराध्नुवन्तम् । इत्यत्र "भ्रूश्नोः" [५३] इति-उव् ॥ १ एफ शाः स्त्रि'. १ ए वन्त्यः ।. २ एफ शाः स्त्रि'. ३ सी डी लक्ष्मी च. ४ एफ प्रेम्णानु'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy