SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [है० २.१.४६.] द्वितीयः सर्गः। १४९ वेदानधीयन्त इनं स्तुवन्तो यवक्रियः शिश्रियुरग्निमेके । कुशासकल्यः समिदुन्य एके कटप्पुवः सिन्धुतटान्यथेयुः ॥३४॥ ३४. यवान्होमार्थ क्रीणन्ति यवक्रियः । एकेग्निहोत्रिणोग्निकार्यार्थमाग्निं शिश्रियुः । कीदृशाः सन्तः । वेदानधीयन्तोकृच्छ्रेण पठन्तस्तथेनं रविं स्तुवन्तः । अथ तथैकेन्य ऋषयः कटेन प्रवन्ते तरन्ति कटप्रुवो जलपूर्णनदीमपि तरन्तः सन्त इत्यर्थः । सिन्धुतटानि नदीकूलानीयुः प्रापुः । यतः कुशासकल्लोग्निहोत्रपरिस्तरणाद्यर्थ दर्भाणामसकृच्छेदकास्तथा समिध उन्नयन्ति समिदुन्योग्निज्वालनाय काष्ठाहारका अतिनैष्ठिका इत्यर्थः । नदीतटेषु हि प्रायेण दर्भादि बहु प्राप्यते ।। इमे । इत्यत्र “दो मः स्यादौ" [३९] इति मः ॥ त्यदादिसंबन्धिविज्ञानादिह न स्यात् । अतीदमः॥ कः । कदा । इत्यत्र “किमः कस्तसादौ च" [४०] इति कः ॥ स्थः । सः । असौ । इमे । एषः । द्वयोः । तसादौ । यतः । कदा । इत्यत्र "आद्वेरः" [४१] इति-अः॥ स्यः । सः । एषः । इत्यत्र "तः सौ सः" [४२] इति सः॥ असौ । असकौ । इत्यत्र “अदस" [४३] इत्यादिनादस्य सः सेस्तु डौः। असुकः । इति असुको वाकि" [४४] इति वा निपात्यते ॥ पक्षे । असकौ ॥ अमुयोः । इत्यत्र "मोवर्णस्य" [४५] इति मः ॥ अदमुयङ् । अमुंद्यङ् । अमुमुयङ् । अदद्यङ् । इत्यत्र “वाद्रौ" [४६] इति वा दस्य मः॥ द्वौ चात्र दकारी तयोर्वा मे सति चातूरूप्यम् ॥ १ एफ् ब्रुवं सि. १ बी का इति. २ ए सी ज्ञानना.३ सीडी सः ...... सेस्तु. ४ सी मुमुय'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy