________________
१५४
व्याश्रयमहाकाव्ये
[ मूलराजः ]
नीलत्वाच्च तानि हरितानि संभावयन्त इत्यर्थः । अत एव धुर्या धुरीणा अश्वा अरुणस्य रविसारथेर्दीव्यद्गाढतोदना देदीप्यमानं तोत्रं प्राजनं यासु ता दीव्यत्तोत्रास्तोत्रतोदनपुरःसरा गिरो हक्कारान्नो गणयन्ति । यदि ते शाद्वललिलिक्षया तोत्रहकारान्न गणयन्ति तत्किं तास्तेषु प्रयुङ्क्ते सावित्याह । तमः पिपिक्षोरुच्छेत्तुकामस्य तमः पेषकार्यकरणोत्सुकस्येत्यर्थः ॥
3
सुगीर्यमाणोपि गुरुक्तगीर्यन् श्रेयोरथे धुर्यति धुर्यमाणः । कुर्यात्प्रशान् साधुरिहोपयोगं छुर्यादघं मोहजयं जगन्वान् ||४०||
४
४०. साधुराईत मुनिरिह प्रभात उपयोगं प्राभातिकानुष्ठानविशेषं कुर्यात् करोति । कीदृक्सन् । सुगीर्यमाणोपि शोभना गीर्वाग्देवी सुगीस्त - द्वदाचरन्नपि गुरूक्तगीर्यन् गुरुभिराचार्यैरुक्तां गिरं वाणीमिच्छन् । अपिर्विरोधे । यो ह्यतिविद्वत्तया वाग्देवीतुल्यः स्यात्तस्य सर्वशास्त्र - पारगत्वेनाध्ययनविमुखत्वादाचार्योक्तगिरा किं प्रयोजनम् । विरोधपरिहारस्त्वेवम् । शोभना मधुरा गीर्वाणी यस्य स सुगीस्तद्वदाचरन्नुपयो
E
वेलायां गुरोः पुरः स्थितो विनतशिरा इच्छाकारेण संदिशतोपयोगं करोमीत्यादि पृच्छावाक्यानि मधुरमुच्चारयन्नित्यर्थः । तथा गुरुभिराचा - यैरुक्तां गिरं कुर्वित्यादिकामुत्तररूपां वाणीमिच्छन् । एतेन विनीतत्वोक्ति: । तथा धुर्यति धैरमिच्छति श्रेयोरथे । श्रेयोष्टादशशीलाङ्गसहस्रलक्षणो धर्मः । स एवालेख्ये रथाकारत्वाद्रथः । तत्रविषये धुर्यमाणो धू
९
१०
१ सी थे धू..
१ बी एफ शाइल २ एसीडी का नग बी कान्न. एफ् कारा न ग. ३ एफ पिपक्षो ४ एफ् वी तद्व ५ एफ् स्य सु. ६ सीडी शिरसा इ. ७ एफू धुरामि . ८ एफ् योष्टा ९ एफ् लेख्यर. १० सी ये धूर्य".
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org