________________
१४४
घ्याश्रयमहाकाव्ये
[मूलराजः]]
पहासं भणितय उदिता विजृम्भिताः । कथमित्याह । हे सख्यो हि यस्माद् यूयं कान्ताः सौन्दर्यपात्रं तत्तस्माद्वो युष्माकमिना भर्तारो वो युष्मानीयू रन्तुमागताः । वयं न कान्तास्तदिना न औज्झन् । वयमपि कान्ता एवेत्यस्मद्भर्तारोप्यस्मान् रन्तुमागता एवेत्यर्थः । अत एव हे सख्यो यूयं न सुप्ताः सकलायां निशि निरन्तररमणक्रियया न शयिता इति हेतोर्वो युष्माकमलसत्वमपाटवम् । वयं तु सुप्ता इति नः पटुत्वम् । यूयमिव वयमपि रात्रौ न सुप्ता अतस्तजन्यमेस्माकमप्यपाटवमस्तीत्यर्थः । तथा हि यस्मायूयं सुमृयो भर्तृप्रसादेन सदा सुखितत्वात्सुकुमाराङ्गयस्तत्तस्माद्धेतोरेष प्राभातिकोपि भानुयुष्मान्दुनोति पीडयति न वयं हि मृद्ध्यस्तदेष नास्मांस्तुदति । यूयमिव वयमपि मृद्ध्य एवातोस्मानप्येष भानुस्तुदतीत्यर्थ इति । एतेन यथा वयमालस्यं मुक्त्वा तपं चावगणय्य सर्वप्राभातिककृत्येपूत्सहामहे तथा यूयमप्युत्सहध्वमिति सखीभिर्व्यज्यत इत्यर्थः ॥
इति वः । इति नः । इत्यत्र “नित्यमन्वादेशे" [३१] इति नित्यं वसनसौ ॥
तदिना वः । तदेष युष्मान् । तदिना नः। तदेष नास्मान् । इत्यन्न "सपूर्वात्" [३२] इत्यादिना वा बस्नसौ ॥
पात्रं नयैतच्छुचयैनदेतेनार्धं भजैनेन वलिं च देहि । जुहूसुचावानय तावदेते अथैनयोः प्रक्षिपसर्पिराशु ॥ २७ ॥
१ ए सी डी ख्यो हिर्यस्मा. २ ए °स्माद्रो वो यु'. सी डी स्माद्धेतोर्युष्मा. ३ एफ व रा. ४ एफ तज्ज. ५ एफ मप्यस्माकमपा. ६ ए सी डी हिर्यस्मा . ७ एफप्युत्साह .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org