________________
१४३
है० २.१.३०.]
द्वितीयः सर्गः। नखास्तवाहोरसि वक्षि मां चास्तुभ्यं शपेद्यास्मि तवानपेक्षा । किमीक्षसे मां व्रज तां विमुश्च मामित्यभीकं प्रतिवक्ति का चित् २४
२४. अभीकं प्रभातेनुनयन्तं कामुकं प्रति सपत्नीनखक्षतदर्शनात्कुपिता काचित्कामिनी वक्ति । कथमित्याह । अहेति साभ्यसूये संबोधने । अह अरे धृष्ट तवोरसि वक्षसि नखा नखक्षतानि सन्ति । आ: कष्टं च त्वं पुनी वक्षि भणसि । यदुत तुभ्यं शपे त्वमेव मचित्ते वर्तस इत्यर्थे तव प्रत्ययाथै मात्रादिशपथान्करोमीत्यर्थ इति । यतस्त्वमीदृशोतश्चास्म्यहं तव न विद्यतेपेक्षाकाङ्क्षा यस्याः सानपेक्षा । त्वां नापेक्षे । त्वया मम न प्रयोजनमित्यर्थः । एवं च स्थिते मां किमीक्षसे किं चिन्तयसि ब्रज तां स्वमनोभिप्रेतां मत्सपत्नीम् । विमुञ्च त्यज मामिति ॥ तुभ्यं शपे । मामित्यभीकम्। इत्यत्र “पादाद्योः" [२८] इति तेमादेशाभावः ॥ वक्षि मां च । नखास्तवाह । इत्यत्र "चाहह” [२९] इत्यादिना मा ते आदेशाभावः ॥ किमीक्षसे माम् । इत्यत्र "दृश्यथैश्चिन्तायाम्' [३०] इति मादेशाभावः ॥ यूयं न सुप्ता इति वोलसत्वं वयं तु सुप्ता इति नः पटुखम् । यूयं हि कान्तास्तदिना व ईयुर्वयं न कान्तास्तदिनान औज्झन् २५ यूयं सुमृयो हि तदेष युष्मान् दुनोति भानु वयं हि मृत्यः । तदेष नास्मांस्तुदतीति काकूक्तयः सखीनामुदिता इदानीम् २६
२५,२६. इदानीं प्रभाते सखीनां काकूक्तयः काकुवक्रोक्त्या सो१ एफ सि मां च वक्षि तुभ्यं. २ एफ यं समृ. ३ एफ् ॥ २६ ॥ युग्मम्.
१ एफष्टं त्वं च पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org