SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४२ याश्रयमहाकाव्ये [मूलराजः] वो नः । इत्यत्र “पदाधुग्” [२१] इत्यादिना द्वितीयाचतुर्थीषष्ठीबहुवचनैः सह वस्नसौ ॥ वां नौ । इत्यत्र "द्वित्वे वाम्नौ' [२२] इति द्वितीयाचतुर्थीषष्ठीद्विवचनैः सह वांनावौ ॥ ते मे । इत्यत्र “डेङसा ते मे" [२३] इति ते मे ॥ त्वा मा । इत्यत्र “अमा त्वा मा" [२४] इति त्वामादेशौ ॥ महर्षयोस्माननुशिष्ट कृत्यं देवाः समे मा परिरक्षतेति । विप्रा वरा मां प्रपुनीत चेति सूर्येश मावेति च वागिदानीम् ॥२३॥ २३. इदानी प्रभाते वाग् वाणी वर्तते । अर्थाद्धार्मिकाणाम् । कथं कथमित्याह । हे महर्षयोस्मान् कृत्यं धर्मकार्यमनुशिष्टोपदिशतेति । इतिरत्राध्याहार्यः । तथा हे देवा अर्हदादयः समे सर्वे मा मां परिरक्षत संसारापायेभ्यः पातेति । तथा हे विप्रा वरा ज्ञानक्रियाभ्यां श्रेष्ठा यूयं मां प्रपुनीताशीर्दानपूर्व मस्तकोपरि मन्त्रपूतदूर्वाक्षतक्षेपादिना पवित्रयतेति च । तथा हे सूर्य ईश स्वामिन् मा मामव रक्षेति । धार्मिका हि प्रातर्धर्मश्रवणादि वाञ्छन्ति । महर्षयोस्मान् । इत्यत्र “असदिव" [२५] इत्यादिना-आमच्यपदस्यासत्वम् ॥ देवाः समे मा विप्रा वरा माम् । इत्यत्र "जस्वि" [२६] इत्यादिना आमज्यविशेष्यस्य वासत्त्वम् ॥ सूर्येश माव । इत्यन्न “नान्यत्" [२७] इति असत्त्वनिषेधः ॥ १ सी डी °ह वां. २ डी वांनौ च ते. एफ वा नौ ते. ३ एफ शीर्वादपूर्वकं म. ४ एफ दिइ. ५ एफू शेषस्य पदस्यास. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy