SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [है० २.१.३२.] द्वितीयः सर्गः। १४५ कुण्डं खनेदं परिलिम्प चैनदिदं फलं धेह्यथ होमयैनम् ।। इदं सदेनेन यजस्व दनानयोः श्रुतं सत्कुरु चैनयोस्तत् २८ बजेमकस्मायथ देहि चास्मायेतेग्नयोथैषु नतिं कुरुष्व । अन्योन्यमित्यादिशतां द्विजानाममूगिरो ब्रह्मपुरीष्विदानीम्२९ २७-२९. इदानी प्रभाते ब्रह्मपुरीषु द्विजानां यायजूकानाममू: प्रत्यक्षा गिर आज्ञावाण्यो वर्तन्ते । यतोन्योन्यमादिशताम् । कथमित्याह । हे द्विजैतत् प्रत्यक्षं पात्रं यज्ञभाजनं नय जलस्थानादि प्रापय । तत एनदेव पात्रं शुचय जलक्षालनादिना पवित्रीकुरु । तथों हे द्विजैतेन पात्रेणाघ पूजोपकरणं पुष्पफलादि भज गृहाणेत्यर्थः । ततोनेनैव पात्रेणेश्वरेन्द्रादिभ्यो बलिमुपहारं देहि । तथैते जुहूँस्रुचौ । जुहूरुत्तरानुक् । ततो गोबलीवर्दन्यायेन स्रुच्शब्देनाधरा झुगुच्यते । द्वन्द्वे जुहूसुचावुत्तराधरस्रुचौ । तावदिति प्रक्रमे । आनय । अथानन्तरमेनयोरुत्तराधरस्रुचोराशु शीघ्रं होमाय सर्पिः प्रक्षिपे । तथेदं कुण्डं खन पुरोवर्तिनी भूमि यागाम्याधानार्थ खननेन कुण्डाकारां कुर्वित्यर्थः । तत एतदेव कुण्डं परिलिम्प च समन्ताल्लिम्बस्व च । तथेदं फलमाम्रादि धेहि पाणौ धर । अथानन्तरमेनमेव फलं होमय जुहुधि । तथेदं दधि सद् वर्तते । ततोनेनैव दना यजस्व यागं कुरु । तथानयोर्यायजूकयोः श्रुतं वेदादिशास्त्रसारं वर्तते । श्रुतवन्तावेतावित्यर्थः । तत्तस्माद्धे १ एफ चैतदि. २ एफ २९ ॥ त्रिभिर्विशेषकम् ॥ इ. १ सी डी २९॥ प्र. २ सी ना प°. डी नात्पवि'. ३ एफ °था द्वि'. ४ सी डी हूरु. ५. ए सी पः ।. ६ एफ °म्प च ।. ७ एफ मेतदेव. ८ एफ तथाने. ९ वी एफ शास्त्रं सा, १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy