________________
[ है० २.१.१२.]
द्वितीयः सर्गः।
१३९
युषभ्यम् । असभ्यम्। इत्यत्र “मोर्वा" [९] इति मस्य वा लुक् ॥ पक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यमिति णिगन्तपक्षे । शेषइत्येव । युषान् । असान् । अन्न पूर्वेण मस्यात्वम् ॥
युवाम् । आवाम् । स्वपधुवयि । वियुतावयि । इत्यत्र “मन्तस्य” [१०] इत्यादिना युवावौ ॥ द्वयोरिति किम् । युष्मभ्यम् । अस्मभ्यम् ॥ द्वयोरिति युष्मदसद्विशेषणं किम् । जितयुष्मयोः । जितास्मयोः । अत्र समास एव द्वित्वविशिष्टेर्थे वर्तते न युष्मदस्मदी इति युवावादेशौ न भवतः ॥
स्वया । मया । त्वयि । मयि ॥ प्रत्यये । त्वदीयः। मदीयः ॥ उत्तरपदे । त्वत्पुर । मद्विधानाम् । इत्यत्र "त्वमौ प्रत्यय" [११] इत्यादिना त्वमौ ॥ त्वदयन् । इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्रागेव त्वमौ ॥ कश्चित्तु पूर्वमन्त्यस्वरादिलोपे त्वमादेशेकारस्य वृद्धौ प्वागमे मापयन्नित्याह ॥ प्रत्ययोत्तरपदे चेति किम् । अध्यस्मत् । अन्तरङ्गत्वात्स्यादिद्वारेणैव त्वमादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं “बहिरङ्गोपि लुबन्तरङ्गानपि विधीन् बाधते" [न्या० सू० ४६] इति न्यायज्ञापनार्थम् । तेन तदित्यादावन्तरङ्गमपि त्यदायत्वादि न स्यात् । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेथे वर्तमानयोस्त्वमादेशाविच्छन्ति । तन्मते अधित्वत् ॥
. त्वम् । अहम् । इत्यत्र "त्वमहं." [१२] इत्यादिना त्वमहमौ सिना सह ॥ सिनेति किम् । आवाम् ॥ प्राक् चाक इति किम् । त्वकम् । अहकम् । इत्यत्राकः श्रुतिर्यथा स्यात् । अन्यथा पूर्वमकि सति "तन्मध्यपतितस्तद्हणेन गृह्यते" इति न्यायात्साकोप्यादेशः स्यात् ॥ केचित्तु त्वां मां चाचष्ट इति णौ त्वमादेशे वृद्धौ क्विपि मन्तयोरेव त्व-अह-आदेशविधानात्सौ त्वां मामिति । धातोरेव वृद्धि
१ एफ स्मदोविशे'. २ बी यि प्र. ३ एफ बाध्यते. ४ एफ °त्, अधिमत् त्व. ५ डी त्वां मामाच.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org