SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १४० व्याश्रयमहाकाव्ये [ मूलराजः] रिति मते त्वं ममित्येव च भवतीति मन्यन्ते। ते हि प्रकृतिमात्रस्यादेशान् जस्सीनाममादेशं ङसस्त्वकारमिच्छन्ति । अत्र तु त्वमिति ममिति च स्वयं ज्ञेयम् ॥ अतियूयम् । अतिवयम् । इत्यत्र “यूयं वयं जसा" [१३] इति यूयंवयमौ ॥ त्वां मां धिगावां च युवां तथास्मान्युष्मान्न यत्सत्तव सन्ममेशः। ईक्षेति वाचो नृषु तुभ्यमिष्टमा हितेष्वाश्चधुनोल्लसन्ति ॥ २० ॥ २०. इष्टा वयं यस्य तस्मायिष्टमह्यं तुभ्यं हितेषु त्वय्यत्यन्तं भक्तेषु नृष्वाधारेष्वधुना प्रभात इत्येवंविधा वाच आशूल्लसन्ति । यथा हे मित्र सन् प्रसादपात्रत्वेन प्रधानस्त्वं सन्तौ युवां सन्तो यूयं च यस्य तस्य सत्तव तथा सन्नहं सन्तावावां सन्तो वयं च यस्य तस्य सन्ममेशः स्वामिनो मूलराजस्य यद्यस्मान्नेक्षा दर्शनं नाभूत्तत्तस्मात्त्वां मां युवामावां युष्मानस्मांश्च धिग् धिक्कारोस्त्विति । अतिभक्तत्वात्प्रातस्त्वदर्शनेत्युत्कण्ठिताः सेवका यावत् क्षणमात्रं त्वदर्शनं न भवति तावदकृतार्थं मन्यमानाः स्वं निन्दन्तीत्यर्थः ॥ तुभ्यम् । इष्टमह्यम् । इत्यत्र "तुभ्यं मह्यं ड्या" [१४] इति तुभ्यमह्यमौ ॥ सत्तव । सन्मम । इत्यत्र “तव मम ङसा" [१५] इति तवममौ ॥ त्वाम् । माम् । युवाम् । आवाम् । इत्यत्र "अमौ मः'' [१६] इति अम्-औ-स्थाने म्॥ युष्मान् । अस्मान् । इत्यत्र "शसो न" [१७] इति शसो न ॥ १ ए ईध्येति. १ए °मममा. २ बी एफ तु त्वामि'. ३ एफ ति मामि. ४ एफ स्य स. ५ ए सी स्य तन्म. ६ All Mss read धिक्कारो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy