SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३८ घ्याश्रयमहाकाव्ये [मूलराजः] प्रियस्त्वदयन् त्वत्समीपेद्याहं वत्स्यामीति त्वामाचक्षाण: सन्नध्यस्मन्मयि मत्समीप आसीदुवास । तथा यो मापयन् त्वत्समीपेद्याहं वत्स्यामीति मामाचक्षाणः सन्नधित्वत्त्वयि त्वत्समीप आसीदवास्मिन् प्रिये विषये कस्तवानुतापः पश्चात्तापः । अयमर्थः । यः शठत्वाद्वासविषये त्वामुक्त्वा मत्समीपेवसन्मां चोक्त्वा त्वत्समीपेवसत्तस्मिञ् शठस्वभावे प्रिये सैषास्य वल्लभा नाहमिति किमित्यनुतप्यसे द्वयोरपि समानापमानकारित्वात् । यद्येवं तर्हि किं कार्यमित्याह । यत्तदोनियाभिसंबन्धाद्यदिति गम्यम् । यदहं वदामि तत्पूर्वोक्तं भर्तुः शठस्वभावत्वमेवं निश्चिनु तथेत्यङ्गीकुर्विति ॥ निशि त्वकं मामहकं तथा त्वां युक्तौ नु नावां विधिजृम्भितानि। प्रमाणमत्रातिवयं तथातियूयं रथाङ्गाविति कूजतो नु ॥ १९ ॥ १९. रथाङ्गौ चक्रवाकमिथुनमिति न्विदमिव कूजतो वदतः । यथा निशि रात्रौ निशामाहात्म्यात् कुत्सिताल्पाज्ञाता वा त्वं त्वकं मां मामाचचक्षे मामवोचस्तथा निशि कुत्सितोल्पोज्ञातोवाहमहकं त्वां त्वामाचचक्षे त्वामनवम् । आवां नु । नुः पुनरर्थे । त्वं चाहं च पुनर्न युक्ती न मिलितौ । यद्यपि निश्यावां संयोगाय प्रेम्णान्योन्यं शब्दायितवन्तौ तथापि न संयुक्तावित्यर्थः । नन्वत्र को हेतुरित्याह । अत्रावयोरयोगे विधिजम्भितानि देवविलसितानि प्रमाणं हेतवो यतोतिवयं तथातियूयं दैवस्य प्रतिमल्लाभावान्मां त्वां चातिक्रान्तानीति ।। युष्मभ्यम् । अस्मभ्यम् । अणिगन्तपक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यम् । इत्यत्र “शेषे लुक्" [4] इति दस्य लुक् ॥ १ बी था त्वं यु. १ एफ प्रियवि. २ एफ °मथ यः. ३ बी किमत्य'. ४ सी डी °से स द्व'. ५ एफ शाया मा . ६ एफ माच'. ७ एफ °कं त्वा. ८ डी मबूव. एफ °मब्रुव. ९ सी अणि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy