________________
[है० २.१.७.]
द्वितीयः सर्गः
१३७
9
तयोः स्त्रीदृशोः प्रबोधे विकासे सति । युष्माकं हासैर्निः श्रीकत्वादुत्पलान्येतानि स्त्रीदृग्भ्यां जितानीति स्मितैः किम् । न किंचित् । अथ च हासैर्विकासैः किम् । यतो जिता यूयं यकाभ्यां तयोः । स्त्रीदृग्भ्यां यूयमपि जितानीत्यर्थः । एतदुक्तं स्यात् । येह्यात्मनापि पराभूताः स्युस्तैरन्येषां पराभूतानां किं हसनीयमिति । प्रभाते हि कमलानि विकसन्त्युत्पलानि च संकुचन्ति । स्त्रीदृशर्श्वोतिविकसन्त्यत इयमुक्तिः ॥
3
त्वया मदीयोथ मया त्वदीयो राजन्प्रतापोनुकृतस्त्वयीति । तर्काकुलो भानुरुदेति मन्दमित्याशयः संप्रति मद्विधानाम् ||१७||
१७. प्रभाते हि रविर्मन्दं मन्दमूर्ध्वमयते तत इयमुक्ति: । संप्रति प्रातर्मया विधा सादृश्यं येषां तेषां मद्विधानां बन्द्यादिजनानामित्येवंविध आशयश्चित्ताभिप्रायः । इदं वयमुत्प्रेक्षामह इत्यर्थः । यथा हे राजन् मूलराज त्वया मदीयः प्रतापस्तेजो नुकृतोनुहृतोथाथवा मया त्वदीयः प्रतापोनुकृतो द्वयोरप्यावयोस्तुल्यप्रतापित्वादित्येवंप्रकारेण त्वयि विषये योसौ तर्कः संशयपूर्व मनसा भणनं तेनाकुलो व्यामूढः सन् भानुरादित्यो मन्दमनुत्सुकं यथा स्यादेवमुदेति । तर्काकुलो ह्यन्यचित्तत्वात्प्रस्तुतं कार्यं मन्दमेव करोति ॥
योध्यस्मदासीत्त्वयन्नधित्वद्यो मापयन्कोत्र तवानुतापः । दाम्यहं निश्चिनु तत्त्वमेवं मिथः सखीनामधुनेति वाचः ॥ १८ ॥
१८. अधुना प्रभाते मिथः सखीनां कथमप्यन्योन्यं प्रतिपन्नसखीत्वानां सपत्नीनां वाच: संबोधिका वाण्यो वर्तन्ते । कथमित्याह । हे सखि यः
१ एफ 'चिदित्यर्थ: । हासैविकासैः । य २ एफ् ग्भ्यां वय.. ४ सी डी चापि वि. ९ सी ते
इ.
६ बी न्योन्यप्र'.
१८
Jain Education International
For Private & Personal Use Only
३ एफ 'नि सं".
www.jainelibrary.org