________________
१३६
व्याश्रयमहाकाव्ये
[ मूलराजः ]
भ्यमपि युष्मानस्मांश्चाचक्षाणेभ्यो हितं वदयो गुर्वादिभ्यश्चेत्यर्थः । तथेष्टा यूयं युष्मानाचक्षाणा वा येषां तेभ्यस्तथा प्रिया वयमस्मानाचक्षाणा वा येषां तेभ्यो युष्माकमस्माकं च स्वजनादिभ्यश्चेत्यर्थः ॥
रात्रौ गतायां वियुतावीह स्वपद्यवय्याशु युषान्वसान्नु । आवां युवां चार्ककरान्नमामश्चक्रावली न्वाहतुरुच्चनादैः || १५ ||
१५. प्रभाते हि विरहापगमेन हृष्टत्वाञ्चक्रवाकास्तारं कूजन्ति । ततोत्प्रेक्ष्यते । इह प्रभाते चक्रश्च चत्री च पुरुषशेषे चक्रौ चक्रवाकमिथुनमली पूर्ववत्पुरुषशेषे भृङ्गमिथुनं कर्मोचनादैस्तारस्वरैः कृत्वाहतुर्नु वत इव । किं तदित्याह । हे अली वियुतौ वियोगिनावावां यस्यां तस्यां तथा स्वपन्तौ निद्रयाचेतनौ युवां यस्यां तस्याम् । आवयोर्युवयोश्वाहितायामित्यर्थः । रात्रौ गतायां गमेरिहान्तर्भूतणिगर्थत्वाद् गमितायामर्ककरैरेवापनीतायां सत्यामावां युवां चार्ककरानाशु नमाम: । यतः किंभूतान् । युषान्नु असान्नु । अत्यन्तं निकटवर्तित्वाद्युष्मानस्मांञ्चाचक्षाणानिव कुशलवार्तादि पृच्छत इवेत्यर्थ इति । इतिरत्राध्याहार्यः । ये हि दीनानाथा - दयो महापुरुषैर्विपत्तेरुद्रियन्ते कुशलवार्ताप्रनादिना संभाष्यन्ते च ते तदुपकारादिर्गुणोत्कीर्तनयान्योन्यं प्रोत्साहयन्तस्तान्प्रणमन्ति || जितास्मयोः किं जितयुष्मयोः स्त्रीशोः प्रबोधे कमलानि हासैः । इत्युत्पलैर्भृङ्गरवैरुदित्वा निमील्यते त्वत्पुरदीर्घिकायाम् ।। १६ ।।
૩
1
१६. उत्पलैरिन्दीवरैस्त्वत्पुरदीर्घिकायां निमील्यते । किं कृत्वा । भृङ्गरवैर्मध्ये बध्यमानानां भ्रमराणां झङ्कारैरुदित्वेव । इवोत्र ज्ञेयः । किमुक्त्वेत्याह । हे कमलानि सूर्यविकासिपद्मानि जिता वयं यकाभ्यां
१ बी क्ष्यन्ते । २ एफ् 'नं क्रमाच्च ३ बी एफ् 'तिर. ४ सी डी 'भाख्यन्ते. एफ् भाव्यन्ते. ५ एफ् च त ६ ए सी गुणकीर्त बी गुणकीर्त ७ फूपुरीदी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org