SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [है०२.१.७.] द्वितीयः सर्गः । अद्भिः । स्वद्भिः । इत्यत्र " अपोद्धे " [४] इत्यद् ॥ राः । बहुराभिः । इत्यत्र “आ रायो व्यञ्जने " [५] इत्याः ॥ युष्मासु । अस्मासु । इत्यत्र " युष्मदस्मदो : " [६] इत्याः ॥ त्वया मयातित्वयि चातिमय्याः किं तत्र यन्निस्पृह आवयोः सः । मिथ्याब्रवीद्यद्युवयोर्वशेहं काचिद्वयस्यामिति खण्डिता ॥ १३ ॥ १३. किल कश्चिच्छठोन्यनायिकासङ्गेन द्वे स्वनायिके वञ्चितवान् । तयोरेका खण्डिता वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्तानायिका वयस्यां भर्तृकृतसमानापमान लक्षणव्यसनापातेन संजातमैत्र्यां सखीम् । द्वितीयां खण्डितां सपत्नीमित्यर्थः । इत्येवं प्रकारेणाह यथा । आः कष्टं हे वयस्ये । अतित्वय्यतिमय्यन्यनोयिकासक्तत्वात्त्वां मां चातिक्रान्ते तत्र शठप्रियै विषये त्वया मया च किम् । न किं चिदित्यर्थः । यद्यस्मादावयोस्त्वयि मयि च विषये स शठो निःस्पृहो निरपेक्षः । ननु सोवादीद्युवयोर्वशेहं वर्ते तत्कथमिति ब्रूष इत्याह । युवयोर्वश आयत्तौ वर्तेहं यदब्रवीत्तन्मिथ्यालीकं प्रत्यक्षेणैवमावयोर्वचनात् ॥ त्वया । मया । अतित्वयि । अतिमयि । युवयोः । आवयोः । इत्यत्र “टाड्योसि यः” [७] इति योन्तादेशः ॥ टाड्योसीति किम् । अहम् ॥ युष्मभ्यमस्मभ्यमथो युपभ्यं तथेष्टयुष्मभ्यमथोप्यसभ्यम् | तथा प्रियास्मभ्यमदः प्रभातं षड्भ्योपि राजन् भवतात्सुखाय १४ १३५ १४. हे राजन् । अद् एतत्प्रभातं पड्भ्योपि सुखाय भवतात् । केभ्यः षड्भ्य इत्याह । युष्मभ्यमथो तथास्मभ्यं तथा युषभ्यमस १ बी मैय्या स. २ ए सी डी नायका ३ एफ् ये त्व. ४ एफ् थे श ५ बी एफ यत्तो व ६ एफ् तियान्ता. • Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy