SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३४ व्याश्रयमहाकाव्ये [ मूलराज: ] षड्भिरन्विता नैष्ठिकश्राद्धा मुक्तय आद्यं पुरुषं प्रथमजिनमृषभं स्मरन्ति । प्रभाते हि नैष्ठिकजना जाग्रतः स्वस्वदेवतां स्मरन्ति ॥ I तिस्रः । चतस्रः । प्रियतिस्रः । प्रेयश्चतस्रः । इत्यत्र " त्रिचतुर " [१] इत्यादिना तिसृचतस्रादेशौ ॥ स्यादाविति किम् । त्रिमूर्तीौं । प्रेयश्चतुष्क श्रुतिभिः ॥ । तिस्रः । चतस्रः । प्रियतिस्रः । प्रेयश्चतस्रः । इत्यत्र " ऋतो रः स्वरेनि” [२] इति रः ॥ अनीति किम् । तिसृणाम् । राजच्चतसृणि ॥ अन्ये तूपसर्जनयोस्तिसृचतसृशब्दयोङौं श्रुटि चानिस्वरादौ रत्वविकल्पमिच्छन्ति तन्मते । सतिखि सुतिसरि । उदञ्चञ्चतैखि चञ्चञ्चतसरि । सतिस्रः सत्तिसरः ॥ जरसं जराम् । सज्जरसः असज्जराः । इत्यत्र "जराया जरस् वा" [३] इति वा जरस् || स्नात्वाद्भिरीशैर्बहुराभिरात्तस्वद्भिर्द्विजेभ्यः परिकल्प्यते राः । युष्मासु नन्वल्पमिदं तथापि प्रसीदतास्मास्विति भाषमाणैः ॥१२॥ १२. शुचिभिर्दानं देयमिति स्मृतेरद्भिर्जलैः स्नात्वा शुचीभूय बहुराभिः प्रभूतधनैरीश्वरैर्द्विजेभ्यो रा द्रव्यं परिकल्प्यते संप्रदीयते । किंभूतैः सद्भिः । उदकदानपूर्व दानं देयमित्यात्ताः पाणौ गृहीताः शोभना आपो यस्तैः । तथौद्धत्यरहितं प्रियवक्सहितं च दानं विदुषां श्लाघ्यमिति भाषमाणैः । किमित्याह । नन्विति संबोधने । यद्यपि युष्मासु बहुदानार्हेष्वित्यर्थः । इदं दीयमानं स्वं स्वल्पं तथाप्यस्मासु विषये प्रसीदत वस्तुग्रहणेनानुग्रहं कुरुतेति । प्रभाते हीश्वरैर्दानं दीयते ॥ १ एफ बहु. १ एफ् ''. ९. २ सी डी ष्ठिकेज ३ एफ् सः प्रिय ५ एस. ६ सी डी वाक्यहि ७ सी डी भाष्यमा Jain Education International For Private & Personal Use Only ४ सी डी ' यचत'. ८ बी 'नं च स्व. www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy