________________
[है० २.१.१.]
द्वितीयः सर्गः ।
१३३
पावित्र्यस्य तमसश्चापगमाच्चतस्रो येषु तानि राजच्चतसृणि शोभमानादिक्चतुष्टयान्वितानि सन्ति । यतः किंभूतेमुष्मिन् । त्रयीतनुत्वात्तिसृणां श्रुतीनां वेदानां निधौ स्थाने । एतेनातिपावित्र्योक्तिः । तथा भाभिः किरणैः कृत्वा सह तिसृभिर्वर्तते यस्तस्मिन् सतिस्त्रि प्रथमोदितत्वात्किरणत्रयान्विते पञ्चाच्च ता एव भाः सप्रकाशतरा बभूवुरिति भाभिः सुतिसरि सप्रकाशतरकिरणत्रयान्विते ततो भाभिरुदश्चच्चतरुयुदीयमानकिरणचतुष्टये क्षणाच्च भाभिश्चञ्चचतसरि विकसत्तरकिरणचतुष्टयान्विते च किं चिदुत इत्यर्थः । एतेन तमोपहार उक्तः । योपि नवार्क - तुल्योभिनवनृपः प्रवर्धमानतेजाः श्रुतीनां निधिश्च स्यात्तस्मिन्प्रवर्धमानप्रतापत्वात्प्रतापांशेनौतिदुष्टनिग्रहपरे श्रुतिनिधित्वेन न्यायित्वाच्छिष्टपालके च सति जगन्ति राजदिक्चतुष्टयानि भवन्तीत्युक्तिः ॥ इष्ट्यादिभिः सत्तिसरः सतिस्रो द्विजाः क्रियाभिर्जरसं निहन्तुम् । असज्जराः सज्जरसस्तथाद्यं जरामतीतं पुरुषं स्मरन्ति ॥ ११ ॥
११. तथेति पूर्वोक्तसमुच्चये । असज्जरा अविद्यमानजरास्तरुणाः सज्जरसो वृद्धाश्च द्विजा ब्राह्मणा जरसं जरां निहन्तुम् । मुक्तय इत्यर्थः । जरामतीतं मुक्तमाद्यं पुरुषं विष्णुं स्मरन्ति । कीदृशाः । इष्ट्यादिभिर्य - जनादिभिः क्रियाभिः षड्भिः प्रतिदिनकर्मभिः कृत्वा सत्यो विद्यमानास्तिस्रो येषां ते सत्तिसरः सतिस्रश्वोभयपदार्थमिलने संपपः । षट्कर्मयुक्ता इत्यर्थः । एतेन नैष्ठिकत्वोक्तिः । यद्वा ।
द्विजो विप्रक्षत्रिययोर्वैश्येदम्भे विहंगमे ।
इति वचनाद्दिजा निर्दम्भा इष्ट्यादिभिर्देवपूजादिप्रतिदिन क्रियाभिः
५
१ एफ् तेस्मिन् २ सी न्विता. ३ बी 'नापि दु. ४ एफ् यादिभिः. ५ एफ मील. ६ सी डी स एषः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org