SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३२ व्याश्रयमहाकाव्ये [ मूलराज : ] विराजमान यथा त्वय्युदिते सति यत्सुहृदादीन मुक्त्वा शत्रूणां स्वशिशुन्मुक्त्वाशत्रुभार्याणां च क्रोष्टुवत्पलायनं तत्कियत् । यतोतिभयादेषां मरणमपि संभाव्यते ॥ कोष्टरि । क्रोष्टोः । इत्यत्र “टादौ स्वरे वा " [ ९२] इति वा तृजादेशः ॥ टादाविति किम् । क्रोष्टृन् ॥ क्रोष्टृन् इत्यपि कश्चित् ॥ क्रोष्ट्री । इत्यत्र “ स्त्रियाम्" [ ९३] इति तृजादेशः || चतुर्थः पादः समर्थितः ॥ प्रेयश्चतस्रः प्रियतिस्र ईशास्तिस्रश्वतत्रोपि वधूर्विहाय । प्रेयश्चतुष्कश्रुतिभित्रिमूर्तवत्रोद्गते सांध्यविधौ यतन्ते ॥ ९ ॥ ९. श्रुतिभिदेः कृत्वा प्रेयस्यो वल्लभाश्चतस्रो यस्य राज्ञो हे प्रेयश्चतुकाभिप्रेतवेदचतुष्टयीक तिस्र ऋग्यजुः सामवेदलक्षणा मूर्तयो यस्य । रविर्हि त्रयीमयो वर्ण्यते । तस्मिंस्त्रिमूर्तावत्रार्क उद्गते सतीशा ईश्वरजना: सांध्यविधौ प्रभातसंध्यावन्दनादिकृत्ये यतन्ते प्रवर्तन्ते । किं कृत्वा । आस्तामेका द्वे वा तिस्रोपि चतस्रोपि च वधूर्विहाय । यतः कीदृशाः । प्रेयस्यश्चतस्रो येषां ते प्रेयश्चतस्रो भार्याचतुष्टयान्विताः । तथ प्रियतिस्रः प्रियात्रयान्विताश्च । एतेनात्यन्तकामिनोप्येतत्साध्यैकृत्यं कुर्वन्ति । तस्मात्त्वमपि कुर्विति सूच्यते । प्रेयश्वतस्त्र इत्यादौ संख्याया विशेध्यत्वेन विवक्षितत्वाद् “विशेषण सर्वादि" [३. १. १५० ] इत्यादिना न प्राग् निपातो विशेषणभूतायाः संख्यायास्तत्र प्राग् निपातात् ॥ सतिस्त्रि भाभिः सुतिसर्युदञ्चञ्चतस्त्रि चञ्चञ्चतसर्यमुष्मिन् । निधौ श्रुतीनां तिसृणां नवार्के जगन्ति राजच्चतसृणि दिग्भिः १० १०. अमुष्मिन्प्रत्यक्षे नवार्के सति जगन्ति दिग्भिः कृत्वा राजन्यो १ एफ् शत्रुभा २ एफ् श्वरा: ज ३ बी मेकां द्वे. ४ ड़ी था प्रियास्तिस्रो येषां ते प्रि. ५ एफ् ध्यविधि कु. ६ एफ् संध्याया, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy