SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११६ व्याश्रयमहाकाव्ये [ मूलराजः] ___ उर्वी । सप्रेयसी । धृता । श्रीमन् । इत्यत्र “दीर्घड्याप्' [ ४५ ] इत्यादिना सेल्क् ॥ एभ्य इति किम् । जनः ॥ अमुम् । इत्यत्र “समानादमोत" [ ४६ ] इत्यमोतो लुक् ॥ चतुर्णी छन्दसां षण्णामङ्गानामेष वेदिता। विद्यानां च चतसृणां शक्तीनां तिसृणां गृहम् ॥१९१॥ १९१. एष राजा चतुर्णां छन्दसां वेदानां तथा षण्णामङ्गानां शिक्षा१ कल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तीनां ६ च वेदितार्थतो ज्ञाताभूत्तथा चतसृणां विद्यानामान्वीक्षिकी १ त्रयी २ वार्ता३ दण्डनीतीनां ४ गृहं तत्तत्पुस्तकसंग्रहादिनाधारोभूत् । तथा तत्तच्छास्त्रोक्तार्थानुसारेण प्रवृत्त्या तिसृणां शक्तीनां प्रभुत्वशक्ति १ उत्साहशक्ति२ मत्रशक्तीनां ३ गृहं स्थानमभूत् । एतेन सर्वशास्त्राणि ज्ञातानि संगृहीतानि । तदुक्ताचरणाच्च फलप्राप्त्यास्य तानि सफलान्यभूवन्नित्यर्थः ।। अङ्गानाम् । शक्तीनाम् । इत्यत्र "दी? नामि" [४७ ] इत्यादिना दीर्घः ॥ अतिसूचतसृप्र इति किम् । तिसृणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् । नामीति किम् । छन्दसाम् ।। नृणामीशेत्रारिनृणां शक्तीः प्राणांश्च हर्तरि । न कोपि चतुरदयाजी व्यते यहनि वापतत् ॥ १९२ ॥ १९२. अत्रास्मिन्नृणामीशे नृपेरिनृणां शक्तीः प्रभुत्वोत्साहमन्त्ररूपा बलानि वा प्राणांश्च हर्तर्यपनयनशीले सत्याजौ रणे कोपि शत्रु पतन्न डुढौके । कीदृश्याजौ। चतुर्ध्वहःसु भव इति विगृह्य "भवे" [ ६. ३. १२३] १ ए चतसृणां छ. २ ए एफ ति ५ निरु. ३ एफ तत्त. ४ एफ नि त. ५ एफ न्यभव. ६ ए नि च प्रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy