SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [है० १.४.४७.] प्रथमः सर्गः । ११७ इत्यण्विषये “सर्वांश '' [ ७. ३. ११७ ] इत्यादिनाट् । अह्लादेशश्च । ततो "द्विगोरनपत्ये' [ ६. १. २४ ] इत्यादिनाणो लुपि चतुरहस्तस्मिंश्चतुरह्नि । एवं व्यह्ने व्यहनि वा स्तोककालीनेपीत्यर्थः । आजे: प्रयोगः पुंस्यपि दृश्यते । तथा च माघे । वाहनाजनि मानास साराजावनौ ततः । [१९.३३] इति । असायाह्नपि सायाह्नीवैषोस्वाप्सीन जातु चित् । अदीप्यत प्रतापेन सायाहनि हुताशवत् ॥ १९३ ॥ १९३. यथा सायाह्नि संध्याकाले निषिद्धत्वान्न कोपि स्वपिति तथैष राजासायाह्नेप्यसंध्यायामपि स्वापाहे कालेपीत्यर्थः । जातु चित्कदाचिदपि नास्वाप्सीत् । सदापि प्रजापालने जागरूकोभूदित्यर्थः । तां यथा सायाहनि हुताशोग्निः प्रतापेन दीप्त्या कृत्वा दीप्यते तथैष प्रतापेन तेजसा कृत्वादीप्यत ॥ पैत्रे व्यह्नि दैवतेपि व्यह्ने ब्राह्मे व्यहन्यपि । गुणानां वर्ण्यमानानां कोप्यन्तं नास्य लब्धवान् ॥१९४॥ १९४. सुगमः । किं तु पितॄणामयं पैत्रस्तस्मिन् । विगतमहो व्यह्नस्तस्मिन् व्यह्नि गतदिने । दैवते दैवसंबन्धिनि । ब्राह्मे विधातृसं. बन्धिनि । पैत्रव्यह्नादि प्रमाणं चेदम् । १ एफ त् ॥ १९३ ॥ सं. २ बी पैव्ये व्य. १ सी डी थापि मा. २ एफ सेमरा . ३ ए बी डी एफ मानतः. ४ एफ स्वापेहें. ५ एफ सीदित्यर्थः । स. ६ ए °था सा. ७ सी एफ प्यते ॥ पै. ८ ए ते देव. ९ डी ब्राहये वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy