SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [है० १.४.४४.] प्रथमः सर्गः । मातः क्षितेम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके । अम्बाडे गोत्रदेवि क स्थेत्यस्य प्रालपन्द्विषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकणनित्यर्थः ।। भटाग्रणीः सतां मित्र रूपेण परमे नृप। त्वया श्रीमन् धृतोर्वीत्यूचेमुं सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संबोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वर्तते यः स सप्रेयसी सभार्यो लोकः । मातः । क्षिते । शंभो । इत्यत्र "हस्वैस्य गुणः” [४१] इति गुणः ॥ हस्वस्येति किम् । लक्ष्मि । तद्वधु ॥ चण्डिके । इत्यत्र “एदापः" [ ४२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तद्वधु ॥ द्विस्वरीम्बार्थ । अम्ब । इत्यत्र "नित्यदित्” [४३ ] इत्यादिना ह्रस्वः ॥ नित्यदिदिति किम् । भटाग्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बाडे ॥ आप इत्येव । मातः ॥ नृप । अम् । मित्र । परमे । इत्यत्र “अदेतः" [ ४४ ] इत्यादिना सेस्तदादेशस्यामश्च लुक् ॥ १ एफ तद्वन्धु. १ सी डी एफ हरिप्रि. २ एफ तः अति. ३ एफ स्वस्येति -हस्वः । -ह. ४ एफ रार्थ. ५ एफ दिद्विस्वरे त्या. ६ ए एफ °दिति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy