SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११४ व्याश्रयमहाकाव्ये [मूलराजः] राज्ञां नन्दिप्रतीहारः करोति तथा शंभूक्तयज्ञादिविधिरूपाज्ञायाः कारकमित्यर्थः । तथा कौशले यागादिविधिविषये नैपुणे त्वष्टारमिव । यथा त्वष्टा वर्धकिः शिल्पक्रियाकुशलः स्यात्तथा यागादिधर्म्यक्रियायां कुशलमित्यर्थः । एवं चास्य यागादिविषयं क्रियाज्ञानं चोक्तम् ।। पितरः सन्तु संतुष्टा देवाश्च त्वयि यष्टरि । चण्डिकामात नन्देति प्रस्तोतारोब्रुवन्निमम् ॥ १८८ ॥ १८८. प्रस्तोतार ऋत्विग्विशेषा इमं नृपमब्रवन् । कथमित्याह । चण्डिका चाण्डालदेवीनानी माता यस्य । यद्वा चण्डिका गौरी प्रतिपालिकात्वान्माता यस्य । तस्य संबोधनं हे चण्डिकामात त्वयि विषये पितरः पूर्वजा देवाश्च संतुष्टाः सन्तु । यतो यष्टरि यागैः पितृदेवानां पूजके । ततश्च नन्देति ॥ वोढारम् । स्वसारम् । नप्तारम् । नेष्टारः । त्वष्टारम् । क्षत्तारम् । होतारैः । पोतारः । प्रशास्तारम् । इत्यत्र "तृस्वसृ' [३८] इत्यादिना-आर् ॥ तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणान्नप्वादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न स्यादिति तेषां पृथगुपादानम् । इदमेव च ज्ञापकम् “अर्थवद्रहणे नानर्थकस्य" [न्या० सू० १४] ग्रहणं भवतीति ॥ व्युत्पत्तिपक्षे तृग्रहणेनैव सिद्धे नप्तादिग्रहणं नियमार्थ तेनान्येषामौणादिकानां न स्यात् ॥ पितरः ॥ के चित्तु प्रस्तोतृउन्नेतृउद्गातृप्रतिहर्तृप्रतिशास्तृशब्दानामौणादिकानामप्यारं मन्यन्ते । प्रस्तोतारः ॥ पितरः । यष्टरि । इत्यत्र “अझै च" [३९] इत्यर् ॥ चण्डिकामात । इत्यत्र "मातुर्मात” [४०] इत्यादिना मात इत्यकारातादेशः ॥ १ बी सी प्रतिहा. २ एफति यथा. ३ सीकिः शल्यक्रि. ४ ए चाण्डल', ५ एफ पालकत्वा. ६ एफ रि योगैः. ७ डी °रः प्र. ८ सी °रः य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy