SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [है० १.४.३७.] प्रथमः सर्गः । ११३ दिधर्मानुष्ठानविधानेनाह्लादकत्वान्मित्रात्तथोमाभर्तुर्हरस्य नन्तुरेतेन विशेषणत्रयेणातिधार्मिकत्वमुक्तम् । महर्द्धिको धार्मिकश्च न्यायमेव करोति ॥ खि । सख्युरसात् ॥ ति । पत्युरस्मात् ॥ खी ती । सख्युर्बिडौजसः । पत्युर्जयश्रियः । इत्यत्र “खितिखीतीय उर" [३६] इति ङसिङसोरुर् ॥ लन्युः । इत्यत्र "क्तादेशोषि" [२.१.६१] इति नस्यासत्वात्तीरूपत्व उर् ।। नन्तुरस्मात् । भर्तुः । इत्यत्र "ऋतो डर" [३७] इति डर ॥ सुधावसारं वोढारमतिनप्तारमुष्णगोः। अमुं भूपप्रशास्तारं लब्ध्वा मुमुदिरे प्रजाः ॥ १८६ ॥ १८६. अमुं भूपप्रशास्तारं राजाधिराजं लब्ध्वा प्रजा मुमुदिरे । यतः सुधायाः स्वसा भगिनी लक्ष्मीर्द्वयोरप्येकस्मिन्नब्धावुत्पन्नत्वात्तां वोढारमिव वोढारं सम्यक्प्रजापालनादिना विष्णुतुल्यमतएवोष्णगो रवेर्नप्तारं पौत्रमतिक्रान्तम् । सूर्यस्य पुत्रो मनुस्तस्य पुत्र इक्ष्वाकुः सूर्यस्य पौत्रस्तस्मादपि नीतिप्रजापालनादिनाधिकमित्यर्थः । अथवातिनप्तारमतिशयितं पौत्रं लब्ध्वा । प्रकृष्टपौत्रजन्मनि प्रजा लोका मोदन्ते ॥ शंभोः क्षत्तारमाज्ञायां त्वष्टारमिव कौशले । अमुं होतारः पोतारो नेष्टारस्तुष्टुवुः क्रतौ ॥ १८७ ॥ १८७. होतारः पोतारो नेष्टारश्च ऋत्विग्विशेषाः कतौ यज्ञेमुं नृपं तुष्टुवुः । यतः शंभोर्हरस्याज्ञायां विषये क्षत्तारं प्रतीहारमिव । यथा शंभो • १ एफू तारो पो. १ एफ येण धा. २ सी डी कश्च. ३ एफ ढारं स. ४ सी डी पि प्र. ५ एफ °लोको मोदते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy