________________
११२ घ्याश्रयमहाकाव्ये
[ मूलराजः] मुनेः साधोश्च सत्कर्ता मदं हर्ता कले रिपोः । अद्भुतैरेष विभवैद्योर्विशेषं चकार गोः ॥ १८४ ॥
१८४. एष राजाद्भुतैराश्चर्यकारिभिर्विभवैः सदा प्रवर्तमानमहोत्सवादिलक्ष्मीभिः कृत्वा द्योः स्वर्गात्सकाशाद्गो मेविशेषमतिशयं चकार । ननु कलौ प्रतिक्षणं पदार्थानां हीयमानत्वात्कुतोद्भुतविभवसंभव इत्याह । रिपोः शत्रुभूतात्कलेः कलिकालात्सकाशान्मदं सांप्रतमनीतिरूपा मदाज्ञैव सर्वत्रास्खलितेत्येवं गर्व हो । यतो मुनोनःसङ्गस्य साधोश्च शिष्टजनस्य सत्कर्ता रक्षादानादिना सन्मानकः । यथा यथासौ मुनीन्साधूंश्च सच्चक्रे तथा तथा कलिः क्षीणस्ततश्च महा भूः स्वर्गादपि विशिष्टाभूदित्यर्थः ॥
कलेः । मुनेः । रिपोः । साधोः । द्योः । गोः। इत्यत्र “एदोद्भयाम्" [३५] इत्यादिना सिङसो रेफः ॥
पत्युर्जयश्रियः पत्युः सख्युः सख्युर्बिडौजसः ।
एनोलून्युरुमाभनन्तुरस्मादभून्नयः ॥ १८५ ॥ १८५. अस्मान्नृपान्नयो न्यायोभूत् । यतः पतिमिच्छति क्यनि दीधत्वे पतीयति विपि यलोपे च पतीस्तस्याः पत्युः स्वामिनमिच्छन्त्या जय. श्रियः पत्युः शत्रूच्छेदेन नायकात्। एतेन सैन्यकोशाद्युत्कृष्टसंपदा महद्धिकत्वमुक्तम् । तथैनोलून्युः पूर्ववत्क्यनि किप्येनोलेनिं पापच्छेदमिच्छतोत एव सख्युः सखायमिच्छतो बिडौजस इन्द्रस्य सख्युर्यागा
१ एफ नः । म . २ एफ शत्रुभू. ३ एफ 'न्मन्द सां. ४ सी डी सम्मान. ५ सी डी थासौ. ६ एफ त्वे क्वि. ७ सी डी पि य्वोः प्वय् व्यअने लुक इतिय. ८ एफ किपि यलोपे लूनिः पा'. ९डी लूनीस्तस्यैनोलून्युः पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org