SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [है० १.४.३४. ] प्रथमः सर्गः । १११ ग्रहण ३ धारण ४ ऊह ५ अपोह ६ अर्थविज्ञान ७ तत्वज्ञानानां धीगुणानां धाम स्थानमभूत् । अत एव च पञ्चातिक्रान्ता ये तेषामतिपञ्चञां षण्णां संधि १ विग्रह २ यान३ आसन ४ द्वैधीभाव ५ संश्रयाणां ६ गुणानां भूर्यथौचित्यं प्रवर्तनादुत्पत्तिस्थानमभूत् । तथा चतुर्णामृग् १ यजुः २साम ३ अथर्वणानां ४ छन्दसां वेदानां च भूः पाठेनाध्येत्रध्यापक साहाय्यकरणादिना चोत्पत्तिस्थानमभूत् । निगृहीतान्तरशत्रुर्हि सुस्थचित्तत्वाद्बुद्धिपात्रं स्यात् । धीमांश्च बुद्धिप्रकर्षेण संध्यादीन् सम्यग् नियुङ्क्ते शास्त्रपाठादि च करोति ॥ चतुर्णाम् । षण्णाम् । इत्यत्र "संख्यानां ष्र्णाम्” [३३] इति नाम् ॥ तत्संबन्धिविज्ञानादिह न स्यात् । अपिनाम् ॥ संख्यानामिति किम् । द्विषाम् ॥ बहुवचनं व्यर्थम् । तेन भूतपूर्वनान्ताया अपि । अष्टानाम् । एतेनैव नान्तसंख्याया मूलोदाहरणमपि सूचितम् ॥ अतित्रयाणां वर्णानामतित्रीणामुदन्वताम् । प्रभुरेष त्रयाणां च पुमर्थानां प्रवर्तकः ।। १८३ ।। १८३. एष राजा त्रयाणां पुमर्थानां प्रवर्तक स्त्रीन्धर्मार्थकामान्यथोचितं प्रयुञ्जानः सन् प्रभुरभूत् । केषाम् । अतित्रयाणां त्रीनतिक्रान्तानां चतुर्णी वर्णानां ब्राह्मणक्षत्रियवैश्यशूद्राणां न्यायेन पालनात्तथा । त्रयाणां चेत्यत्र चः समुच्चयार्थो भिन्नक्रमे । अतित्रीणां चतुर्णामुदन्वतां च पूर्वपश्चिमदक्षिणोत्तराब्धीनां च चतुर्दिग्विजयात् ॥ त्रयाणाम् । इत्यत्र "स्त्रयः " [३४] इति नाम् यादेशश्च ॥ तत्संबन्धिविज्ञानादिह न स्यात् । अतित्रीणाम् ॥ अतत्संबन्धिनः स्यादित्येके । अतित्रयाणाम् ॥ १ एकः ।। १८३ ॥ स्त्रीन्ध, १ सी डी येषा . २ सी : २३ एफ् पूर्वायाना ४ एफ् ख्यामू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy