SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११० व्याश्रयमहाकाव्ये [मूलराजः] गाचार्यकं नटोपाध्यायत्वमाचरच्चक्रे । ऐनं सौन्दर्यतर्जितस्मरं दृष्ट्वा नारीणामभिलाषातिशयेन मुहुर्मुहुर्भुव उल्लसन्ति । ततो यथा रङ्गाचार्यों नायिका नर्तयति तथायं लीलावतीभ्रुवो नर्तितवानित्यर्थः । कीदृशीनाम् । निरुपमा सर्वोत्तमा श्री: सौन्दर्यादिलक्ष्मीर्यासां तासामत एव नानारूपश्रियामिव । एवं ज्ञायते नैता: स्त्रियः किं तयनेकमूर्तयो लक्ष्मीदेव्यस्तासाम् ॥ श्रीणां श्रियाम् । भ्रूणां ध्रुवाम् । इत्यत्र "आमो नाम्वा" [३१] इति वा नाम् ॥ अस्त्रियाँ इत्येव । स्त्रीणाम् ॥ याचकानां महतीनामाशानामेष पूरकः । ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ॥ १८१॥ १८१. याचकानां द्विजादीनां संबन्धिनीनां महतीनां राज्यादिलाभविषयत्वाद्वृहतीनामाशानां मनोरथानां पूरकोभूत्तथा ग्रामण्यां व्रतनियमादिभिः प्रकृष्टानां सोमपां वल्लीरसपायिनां यायजूकभेदानां तद्वधूनां च सोमपाभार्याणां च नित्यं पूजकोभूत् ॥ याचकानाम् । आशानाम् । महतीनाम् । वधूनाम् । इत्यत्र "ह्रस्वापश्च" [३२] इति नाम् ॥ ह्रस्वापश्चेति किम् । सोमपाम् । ग्रामण्याम् ॥ धामाष्टानां धीगुणानां षण्णां जेतान्तरद्विषाम् । गुणानामतिपञ्चां भूश्चतुर्णा छन्दसामसौ ॥ १८२ ॥ १८२. असौ राजा पण्णां क्रोध १ मान २ मद ३ स्मरै ४ लो - ५ संमदाना६मन्तरद्विषां जेताभूत् । अत एवाष्टानां शुश्रूषा १ श्रवण २. १ बी सी एतं सौ. एफ एतं सौ. altered to एवं सौ. २ ए 'दृशानां. ३. सी डी यामित्ये. ४ एफ ह्रस्वेत्यादिना नाम्. ५ ए ण्या ॥ ६ सी र ४ सं. ७ एफ भ५ हर्षाणामान्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy