________________
[है० १.४.३०.] प्रथमः सर्गः।
१०९ यवक्रियेस्यारिस्त्रियै भिल्ला नद्यां कट वे ।
अप्रध्यै कूपवर्षाभ्वायिवाधावन्त निष्कृपम् ॥ १७९ ॥ १७९. अस्य राज्ञोरिस्त्रियै शत्रुभार्यायै निष्कृपं निर्दयं यथा स्या. देवं भिल्ला मेदा अधावन्त ग्रहणार्थं धाविताः । कीदृश्यै । यवा हि कदन्नत्वात्समर्थतरा लभ्यन्त इति यवानेव क्रीणाति या तस्यायतिनिःस्वायायित्यर्थः । तथा मूलराजेन पत्यौ हते भयेनारण्ये पलायमानत्वान्नद्यां नदीमध्ये नावाद्यसंपत्त्या कॅटेनैव वीरणादितृणमयेन प्रवते तरति या तस्यै तथा प्रकर्षेण ध्यायति प्रधीन तथा या तस्यायप्रध्यै । हा दैव कथं भविष्यामीत्यार्तध्यानपरायायित्यर्थः । तथा कूपवर्षाभ्वायिव यथा कूपमण्डूकी कूपादन्यन्न किंचिजानाति तथा राज्ञीत्वात्स्वभवनादन्यन्मार्गामार्गादिकमजानत्यायित्यर्थः । कूपमण्डूक्यायपि भिल्ला निष्कृपं मारणाय धावन्ति । भिल्ला हि दुर्दुरानपि मारयन्ति । - श्रियै धिये। धुभुवाः भ्रवः । ह्रियाः भियः । श्रुवां श्रुवि । इत्यत्र “वेयुवोस्त्रियाः" [३०] इति वा दैदास्दास्दामः । इयुव इति किम् । अप्रध्यै । वर्षावै । पूर्वेण नित्यमेव ॥ अस्त्रिया इति किम् । अरिस्त्रियै ॥ स्त्रीदूत इत्येव । यवक्रिये कट वेरिस्त्रियै ॥
असौ निरुपमश्रीणां नानारूपश्रियामिव । स्त्रीणां नतध्रुवां भ्रूणां रङ्गाचार्यकमाचरत् ।। १८० ॥ १८०. नतध्रुवां नम्रभ्रूणां स्त्रीणां संबन्धिनीनां भ्रूणामसौ राजा र___ १ एफ कूटव.
१°डी लाम्लेच्छा अ. २ सी डी तस्यै । इति . ३ एबी निस्वा. ४ एफ कटकेनै . ५ एफ मार्गोन्मार्गादि. ६ एफ ये भु. ७ सी डी स्त्रियामिति. ८ एफ वे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org