SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [ ६० १.४.२७.] प्रथमः सर्गः । पृथ्व्या वध्वाः करं गृह्णल्लक्ष्म्यै वध्वाययं सुखः । लुब्धोन्यकीर्तिवध्वां च परवध्वाः पराङपि ।। १७६ ॥ १७६. सुगमः । नवरं यो वध्वन्तरस्य करं गृह्णात्युद्वाहं करोति स पूर्ववध्वा दुःखायैव स्यात् । योपि परवध्वाः पराङ्मुखः स्यात् सो - न्यवधूं नेच्छतीति विरोधः । तद्भङ्गस्त्वेवम् । पृथ्व्या वध्वाः करं राजग्राह्यं भागं गृह्णन्सन् लक्ष्म्यै वध्वै सुखः सुखकार्यभूत् । लक्ष्म्या वर्धकत्वात् । तथा परवध्वाः पराङ् पराङ्मुखोन्यकीर्तिवध्वां शत्रुकीर्ति - कान्तायां लुब्धश्चाभूत् । अपिगृह्णन्नित्यत्रापि योज्यः ॥ १०७ ग्रामण्येपि खलप्वे नु निस्पृहोसौ परस्त्रियै । सुलक्ष्म्यै च सुवध्वै च न स्म कस्मै चिदीर्घ्यति ॥ १७७॥ १७७. असौ राजा शोभना अतुच्छत्वात्प्रधाना लक्ष्म्यो धनधान्यादिसंपदो यस्य तस्मै सुलक्ष्म्यै च तथा शोभना रूपलावण्याद्यन्विता वधूर्भार्या यस्य । केचित्तु नित्यदितां ङ्यूङन्तानामेव कचमिच्छन्ति तन्मतेत्र कजभावः । तस्मै सुवध्वै च कस्मै चित्कस्मायप्येकस्मै नेयति नासूयति । असहमानो रम्यतमामपि परस्य लक्ष्मीं वधूं च न गृह्णातीत्यर्थः । यतो ग्रामं नयति ग्रामणीग्रमपतिर्महर्द्धिक इत्यर्थः । तस्मै ग्रामण्येपि खलं पुनाति यस्तस्मै खलप्वे नु दासाये दरिद्रायेवेत्यर्थः । अस्पृहयालुर्यथा धनेच्छया दरिद्रं न कोपीच्छति तथायमीश्वरमपीत्यर्थः । तथा परस्त्रियायन्यभार्यायै ग्रामण्येपि रूपलावण्यादिभिरुत्कृष्टायामपि खलवे नु कर्मकर्यायिवास्पृहयालुरनभिलाषुकः ॥ शुचये । कीर्त्याः मतेः । नृपपङ्कयः महाबुद्धेः । जयायां समितौ । 1 १ सी वधूंच्छ. डी 'वधूनेंच्छ २ एफ च्छतिवि. ३ एफ कार्योभू. ४ ए एफ पि गृह्ण५ एफ् नातीति. ६ सी डी येवेत्य ७सी एफ य म . ८ सी डी एफ . म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy