SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये [मूलराजः] प्रभुणा सहिताया अपि दैत्याजिभीर्वा दानवरणाद्भीरोः। एतेन सर्वोत्कृष्टैः शौर्यादिगुणैर्बुद्ध्या च शक्राजय्या अपि दैत्या अनेन जिता इत्युक्तम् ।। असिधेनोः कामधेन्वा जयाप्त्यां समितौ ग्रहात् । नृपपतया महाबुद्धरपि क्षोभमसौ व्यधात् ॥ १७४ ॥ १७४. असौ राजा समितौ रणेसिधेनोः खड्गयष्टेहात् महत्यतिशयिता बुद्धिः संध्यादीनां यथौचित्येन व्यापारणगोचरा मतिर्यस्यास्तस्या अपि नृपपतयाः क्षोभं संत्रासं व्यधात् । ननु यद्यमुनासिधेनुर्गृहीता तत्किं नृपपतिर्महाबुद्धिरपि क्षुब्धेत्याह । यतो जयाप्त्यां विजयप्रापणे कामधेन्वा अवश्यमेव विजयदाच्या इत्यर्थः । अथ च यस्य जयाप्त्यां जयलाभविषये कामधेन्वा ग्रहोनुग्रहः प्रसादः स्यात्स तस्मात्प्रसादात्समितौ सभायां महाबुद्धेरपि महाविदुषोपि क्षोभं करोति ॥ लम्बश्रुतेः स्निग्धदृष्ट्या अस्यातन्वां तनौ सुराः। जाताश्चयों दिवः पृथ्व्यां पृथ्व्या दिवि च ते ययुः १७५ १७५. ते रूपवत्त्वेन सर्वत्र प्रसिद्धाः सुरा दिवः स्वर्गात्पृथ्व्यां ययुः । पृथ्व्याश्च दिवि ययुः । यतो लम्बश्रुतेः स्कन्धविश्रान्तकर्णस्य स्निग्धदृष्ट्या अरूक्षेक्षणस्योपलक्षणत्वात्सुरूपसश्रीकसर्वाङ्गावयवस्यास्य राज्ञोतन्वां विस्तीर्णायां समचतुरस्रसंस्थानायामित्यर्थः । तनौ देहविषये जाताश्चर्या अत्यद्भुतरूपश्रीकत्वादेतन्मूर्तिदर्शनाय देवा अपि गतागतं चक्रुरित्यर्थः ॥ १एफ जय्याप्तां. ४ एफू १ एफ तौ संग्रामेसि. २ एफ ग्रहणात्. ३ सी डी संशयं. यदामु. ५ डी थवा य". ६ सी गापवर्गात्गृ. ७ ए तुश्रमं'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy