SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [हे० १.४.२७.] प्रथमः सर्गः। कान्त्या सदृग्निशः पत्युर्मधोः सख्युश्च रूपतः । शंभोः सख्युः श्रियः पत्युहीयते स्म न संपदा ॥१७१ ॥ १७१. मधोः सख्युश्च कामस्य सहक राजा । शंभोः सख्युर्धनदात् । श्रियः पत्युर्नारायणात् । शिष्टं स्पष्टम् ॥ सख्या । पत्या । सख्ये । पत्ये । सख्युः । पत्युः । सख्युः । पत्युः । इत्यत्र "न नाङिदेत्” [२७] इति न नादेशैकारौ ॥ अस्योपायचतुःस्तन्यै बुद्ध्यै धेन्वै नु साधवे । शुचये कीर्तिदुग्धायै स्पृहयामास वासवः ॥ १७२ ॥ १७२. अस्य राज्ञो बुद्ध्यै धेन्वै न्वर्थात्कामधेनव इव वासवः स्पृहयामास । कामधेनुरिवैतद्बुद्धिर्ममापि भूयादित्यैच्छदित्यर्थः । यतः साधवे मनोज्ञायै । कुतः साधुत्वमित्याह । यत उपायाः सामदानभेददण्डा एव चत्वार स्तना यस्यास्तस्यै । तथा कीर्तिरेव श्वेतत्वाप्यायकत्वादिना दुग्धं यस्यास्तस्यै । बुद्ध्या हि यथौचित्यं नियुज्यमाना उपायाः स्वफलसाधकत्वाद्यशोदुग्धं प्रश्नुवन्ति । तथा शुचये पवित्रायै ।। - तस्याः कीर्त्या मतेस्तस्या अस्मिन्विश्वोपरि स्थिते । सजिष्णोरपि दैत्याजिभीर्वा भीनिर्ययो दिवः ॥ १७३ ।। १७३. तस्याः कीर्त्यास्तस्या मतेः। “गम्ययपः" [२.२.७४] इत्यादिनात्र पञ्चमी । तां शौर्यादिगुणोद्भवां कीर्ति ती पूर्ववर्णितां मतिं च प्राप्य विश्वोपरि स्थिते विश्वत्रयोपरिवर्तिनि सर्वोत्तम इत्यर्थः । अस्मिन् राज्ञि सति दिवः स्वर्गाद्रीनिर्ययौ । कीदृश्याः । सजिष्णोरपि जिष्णुना शक्रेण १ सी डी स्य च स. २ डी त् । शेपं स्प. ३ ए कीर्तेस्त. ४ सी डीतां म. ५ ए रिव'. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy