________________
साधवे ददाति सोऽनिसृष्टदोषः । साध्वाऽऽगमनं श्रुत्वा पच्यमानान्नविषयेऽध्यवपूरयत्यऽन्नं सोऽध्यवपूरकदोषः । एते षोडश दोषा उद्गमदोषा उच्यते । अथ षोडश दोषाः साधुतः समुत्पद्यते, तदाह
धाई दूइनिमित्ते, आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए॥ पुविपच्छासंथव, विज्जामंते य चुण्णजोगे य ।
उप्पायणाइदोसा, सोलसमे मूलकम्मे य॥ तत्र धाइत्ति धात्री मातृवत् बालकस्य क्रीडां विधाय आहारं गृण्हाति स धात्रीदोषः । दूतवल्लोकानां संदेशं कथयित्वा आहारं गृण्हाति स दूतिदोषः । नैमित्तिकवन्निमित्तं भाषयित्वा आहारं गृह्णाति स निमित्तदोषः । आत्मनो जातिकुलादिक ज्ञापयित्वा आहारं गृण्हाति स आजीवदोपः। रंकवत् दीनत्वं भाषयित्वा आहार गृह्णाति स बनीपकदोषः । वैद्यवत् चिकित्सां विधाय आहारं गृह्णाति स चिकित्सादोषः । क्रोधेन आहारं गृह्णाति स क्रोध-दोषः । अहंकारेण आहारं गृह्णाति स मानदोषः । कपटेन वेषं परावर्त्य आहारं गृह्णाति स मायादोषः। लोभेन बहु आहारं गृह्णाति स लोभदोषः । आहारग्रहणात् पूर्वं पश्चाद्वा दातारं व्याख्याति संस्तौति स पूर्व-पश्चात्-संस्तवदोषः । कार्मणमोहनवशीकरणादिकं कृत्वा आहारं गृह्णाति स विद्या-दोषः । मंत्रतंत्रादिकं कृत्वा आहारं गृह्णाति स मंत्रदोषः । अक्षण: चूर्णं दत्वा आहारं गृह्णाति स चूर्णदोषः । सौभाग्यार्थं स्वपदे लेपं कृत्वा आहारं गृह्णाति स योगदोषः । यः आहारार्थं गर्भस्य सातनपातनादिकं करोति स मूलकर्मदोषः । एते षोडश उत्पादन दोषाः । एवं जाता द्वात्रिंशत् । अथ आहारस्य गवेषणायाः दश दोषानाह
संकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्मीसे ।
अपरिणयलित्तछद्दिय एसणदोसा दस हवंति ॥ संकियत्ति दायकस्य वा साधोः शंका समुत्पद्यते इदं शुद्ध अशुद्ध इति शंकादोषः । सचित्तपृथिव्यादिना खरंडितहस्तेन गृह्णाति स म्रक्षितदोषः । आहारः सचित्तवस्तूपरि मुक्तो भवति स निक्षिप्तदोषः। सचित्तेनाऽऽच्छादितं यद्भवति स पिहितदोषः । येन कटोरिकादिना दातुमिच्छति तस्मिन् सचित्तादिकमस्ति तदन्यत्र क्षिप्त्वा ददाति स संहृतदोषः । अंधादिदायकस्य हस्तेन गृह्णाति स दायकदोषः । अयोग्यंसचित्तमचित्तमेकत्र भवति तन्मध्ये अचित्तं गृह्णाति स उन्मिश्रदोषः । यद्वस्तुनि संपूर्णशस्त्रपरिणतो न भवति सोऽपरिणतदोषः । हस्तं खरंडयित्वा पश्चात् हस्तं प्रक्षालयति स लिप्तदोषः । अन्नादिकं विकीर्णमान: सन्मानयति स छदितदोषः । इमे दश एषणा दोषा उभयतः समुत्पद्यते । एवं जाता द्वाचत्वारिंशत् दोषाः । अथ संयोजनादि पंच दोषा भोजनसमये साधुभिस्त्याज्यास्तेषां नामान्याह
संजोयणापमाणे इंगाल-धूम-कारणे ।
बसेहिं बहिरंतरे वा रसहेउं दव्वसंजोगा। स्वादहेतवे क्षीरखंडघृतादिकमेकत्रीविधाय पश्चाद् भुंक्ते स संयोजनादोषः ।
श०७, उ०१,ढा०११४ २२३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org