________________
तीर्थाटन
१८७ (संस्कृत लेख)
॥ श्री शांतिसागर दिगंबराचार्य संघः।। श्री दिगंबरजैनधर्ममुद्द्योतयन् महाप्रतापिदिगन्तकीर्तिपंचमजार्जनाम्नो बृटिशसम्राजः शासने प्रवर्तमाने काशीनिकटवर्तिनः श्री सिद्धमहाक्षेत्र-सम्मेदाचलस्याधित्याकायां समागतः।
दक्षिणमहाराष्ट्रराजधानी-कोल्हापुरान्तर्गतस्य निकटवर्तिनो भोजग्रामस्य पाटील भीमगौड़ा-सत्यवतीति जनकजनन्योरयं महात्मा श्री शांतिसागरः समजनि।
दीक्षित्वा चैकदा पर्यटन तत्क्षोणीप्रदेशमवर्णनीयानेकगुणमण्डित्वाच्चतुर्विधेन संघेन मिलित्वाऽऽचार्य पदीत्वमध्यारोपितः। निकटवर्तिनो बाहुबलि-नामपर्वतस्याधित्यकाभूमौ वीरनिर्वाणसंवत्सरस्य २४५४ तमस्य वर्षायोग संजग्राह। एतद्वर्षायोगं समाप्य मार्गशीर्षकृष्णतृतीयादिने ततः सिद्धक्षेत्राणि वंदितुं संघेन सह उत्तरस्यां दिशि बिहारमारेभे। __ एवं कोल्हापुर, सांगली, मिरज, अथणी, बीजापुर, अक्कलकोट, आलंद, लातूर, नागपुर, रायपुर, बिलासपुर, रांची, हजारीबाग, इत्यादीन् राजधानीनगरखेटादीननेकान् पर्वतान् नदीश्च लङ्घयन् तथा च कोल्हापुर-फलटण-सांगली-मिरजादिनगरनाथैः निजामराज्याधिपति-नब्बाबमहोदयैश्य सम्मानितः सन तत्र तत्र च धर्मोपदेशेन लोकान् मोक्षमार्गे दृढ़यन् स्वसंघंच तत्र नियोजयन् संधेन सह सार्धत्रयमासेषु सम्मेदपर्वतमाजगाम, वीरनिर्वाण २४५४ विक्रमाव्द १९८४ खुष्टाव्द सन् १९२८ तमे शाकानां च २८५० तमे फाल्गुनमासे शुद्धतृतीयादिने। । एतत्फाल्गुनस्य चाष्टाह्निकमहापर्वपर्यन्तमेनामेव भूमिमलंचकार । संघोऽयं मुंबापुरोप्रवासिना प्रतापगढ़नगरवास्तव्येन रत्नव्यापारिणा दिगम्बर-जैनधर्मपरायणेन श्रेष्ठिना घासीलालेनं अनेकधर्मपरायणं श्रावकश्राविका-समुदायं संघेन सहाऽऽहारादिविविधवैयावृत्यं गृहस्थधर्मस्यावश्यकं परिपाल-यितुमादाय तत्समुदायस्यावश्यकता प्रकटयितुं नानाविधावश्यकसामग्रीरक्षार्थ राजकीयान् कर्मचारिणः (पोलिस) श्रीमज्जिनेन्द्रवन्दनार्थ श्रीजिनसमवसरणमश्वबृषभशकटीतैलशकटीप्रभृतिगृहस्थ जनोपयोगिवाहनसमुदायंचगृहीत्वासर्वविधनिजद्रव्यं श्री जिनधर्माप्रपूर्णभक्ति-तोगीकृत्य प्रोत्साह्यानीतः। पिताऽस्य नाम्ना पूनमचन्द्र श्रेष्ठी माता च जडावबाई।
त्रयोऽस्य पुत्रा नाम्ना गेंदनमलो दाडिमचन्द्रो मोतीलालश्च एतेऽपि च संघ-सेवारताः पितुराज्ञया सहैव शश्वदासन्।
॥संघपरिचयः॥ संघेऽस्मिन्नाचार्यवर्यान् श्रीशांतिसागरपरमेष्ठिनः सेवमानास्त्रयो दिगम्बरा मुनिश्रेष्ठाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org