________________
भगवती वृत्ति
५६५
उल्ललनं व्यामर्द्दनं - परस्परेणाङ्गमोटनमिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मज्जणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणघरं अणुपविसइ समंतजालाभिरामे' समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिज्जे हणमंडवंसि णाणामणिरयणभत्तिचित्तंसि हाणपीढंसि सुहनिसणे' इत्यादिरिति । 'महग्घवरपट्टणुग्गयं' ति महार्घा च सावरपत्तनोगता च वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तां वरपट्टनाद्वा-प्रधानवेष्टनाद् उद्द्वता-निर्गता या सा तथा तां 'सहपट्टभत्तिसयचित्तताणं' ति सह पट्ट ति सूक्ष्मपट्टः सूत्रमयो भक्तिशतचित्रस्तान:- तानको यस्यां सा तथा ताम् 'ईहामिए' त्यादि यावत्करणादेवं दृश्यम् - 'ईहामियउसभणरतुरगमकरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं' ति तत्रेहामृगा वृका ऋषभाः- वृषभाः नरतुरगमकरविहगाः प्रतीताः व्यालाः- स्वापदभुजगाः किन्नराःव्यन्तरविशेषाः रुरवो-मृगविशेषाः शरभा-आटव्या महाकायाः पशवः परासरेति पर्यायाः चमरा- आटव्या गावः कुञ्जरागजाः वनलता- अशोकादिलताः पद्मलता :- पद्मिन्यः एतासां यका भक्तयो - विच्छित्तयस्ताभिश्चित्रा या सा तथा । तां 'अब्भिंतरियं' ति अभ्यन्तरां 'जवणियं' ति यवनिकाम् 'अंछावेइ' ति आकर्षयति 'अत्थरयमउयमसूरगोत्थयं' ति आस्तरकेण प्रतीतेन मृदुमसूरकेण वा अथवाऽस्तरजसानिर्मलेन मृदुमसूरकेणावस्तृतं - आच्छादितं यत्तत्तथा । 'अंगसुहफास' अङ्गसुखो देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् । 'अटुंगमहानिमित्तसुत्तत्थधारए' त्ति अष्टाङ्गअष्टावयवं यन्महानिमित्तं-परोक्षार्थप्रतिपत्तिकारण व्युत्पादकं महाशास्त्रं तस्य यौ सूत्रार्थों तौ धारयन्ति ये ते तथा तान्, निमित्ताङ्गानि चाष्टाविमानि
'अट्ट निमित्तंगाई दिव्वु १ प्पातं २ तरिक्ख ३ भोमं च ४ । अंगं ५ सर ६ लक्खण ७ वंजणं च ८ तिविहं पुणेक्केक्कं ॥ १ ॥' (अष्ट निमित्ताङ्गानि दिव्यमुत्पातमन्तरिक्षं भौमं चाङ्गं स्वरं लक्षणं व्यञ्जनं च पुनरेकैकं त्रिविधम् ॥ १ ॥ ) |
११ / १३९. 'सिग्घ' मित्यादीन्येकार्थानि पदानि औत्सुक्योत्कर्षप्रतिपादनपराणि।
११/१४०. 'सिद्धत्थगहरिया लियाकयमंगलमुद्धाण' त्ति सिद्धार्थका:सर्षपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा ।
११/१४२. संचालंति' त्ति सञ्चारयन्ति 'लट्ठ' त्ति स्वतः 'गहियट्ट' त्ति परस्मात् 'पुच्छियट्ठ' त्ति संशये सति परस्परतः 'विणिच्छियट्ट' त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति । 'सुविण' ति सामान्यफलत्वात् 'महासुविण' त्ति महाफलत्वात् 'बावत्तरिं' ति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति 'गब्र्भ वक्कममाणंसि' त्ति गर्भं व्युत्क्रामति-प्रविशति सतीत्यर्थः, 'गयवसहे' त्यादि, इह च 'अभिसेय' त्ति लक्ष्म्या अभिषेकः
Jain Education International
परिशिष्ट - ५ : श. ११ : उ. ११ : सू. १३८-१५१
'दाम' त्ति पुष्पमाला। 'विमाणभवण' त्ति एकमेव, तत्र विमानाकारं भवनं विमानभवनं, अथवा देवलोकाद्योऽवतरति तन्माता विमानं पश्यति यस्तु नरकात् तन्माता भवनमिति, इह च गाथायां केषुचित्पदेष्वनुस्वारस्याश्रवणं गाथाऽनुलोम्याद् दृश्यमिति ।
११ / १४३. जीवियारिहं ति जीविकोचितम् ।
११/१४५. 'उउभयमाणसुहेहिं ति ऋत २ भज्यमानानि यानि
सुखानि - सुखहेतवः शुभानि वा तानि तथा तैः । 'हियं' ति मेघ गर्भमपेक्ष्य 'मियं ति परिमितं नाधिकमूनं वा 'पत्थं' ति सामान्येन पथ्यं । किमुक्तं भवति ? - 'गब्भपोसणं' ति गर्भपोषकमिति 'देसे य' ति उचितभूप्रदेशे 'काले य' त्ति तथाविधावसरे। 'विवित्तमउएहिं' ति विविक्तानिदोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तानि तथा तैः 'पइरिक्कसुहाए' त्ति प्रतिरिक्तत्वेन तथाविधं जनापेक्षया विजनत्वेन सुखा शुभा वा या सा तथा तया । 'पसत्थदोहल' त्ति अनिन्द्यमनोरथा 'संपन्न दोहना' अभिलषितार्थपूरणात् 'संमाणियदोहला' प्राप्तस्याभिलषितार्थस्य भोगात् 'अविमाणियदोहल' ति क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः । अत एव 'वोच्छिन्न दोहल' त्ति त्रुटितवाञ्छेत्यर्थः । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह'विणीयदोहल' ति 'ववगए' इत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः - अकस्माद्भयम् । इह स्थाने वाचनान्तरे 'सुहंसुहेणं आसयइ सुयइ चिट्ठड़ निसीयड तुयदृइ' त्ति दृश्यते तत्र च 'सुहसुहेणं' ति गर्भानाबाधया 'आसयइ' ति आश्रयत्याश्रयणीयं वस्तु 'सुयइ' त्ति शेते 'चिट्टइ' ति ऊर्ध्वस्थानेन तिष्ठति 'निसीय' त्ति उपविशति 'तुयट्टइ' ति शय्यायां वर्त्तते इति ।
११/१४७. 'पियट्टयाए' त्ति प्रियार्थतायै प्रीत्यर्थमित्यर्थः 'पियं निवेएमो' त्ति 'प्रियम्' इष्टवस्तु पुत्रजन्मलक्षणं निवेदयामः 'पियं भे भवउ' त्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति ।
११/१४८. 'मउडवज्जं' ति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जनं 'जहामालियं' ति यथामालितं यथा धारितं यथा परिहितमित्यर्थः । 'ओमोयं' ति अवमुच्यते- परिधीयते यः सोऽवमोकः- आभरणं तं 'मत्थए धोबड़' त्ति अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनार्थं, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः ।
११ / १४९. 'चारगसोहणं' ति बन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेह' त्ति इह मानं रसधान्यविषयम् उन्मानंतुलारूपम् ।
११/१५१. 'उस्सुक्कं' ति उच्छुल्का' मुक्तशुक्लां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककं तु विक्रेयभाण्डं प्रति राजदेयं
For Private & Personal Use Only
www.jainelibrary.org