________________
भगवती वृत्ति
५६३
परिशिष्ट-५ : श. ११ : उ. ११ : सू.१२४-१३३
अनन्तरं रात्रिदिवसयोर्वैषम्यमभिहितं, अथ तयोरेव समतां
दर्शयन्नाह११/१२४.१२५. 'अत्थि ण' मित्यादि, इह च 'चेत्तासोयपुन्निमाएसु
ण' मित्यादि यदुच्यते तद्व्यवहारनयापेक्षं निश्चयतस्तु कळमकरसंक्रान्तिदिनादारभ्य यद् द्विनवतितममहोरात्रं तस्याट्टै समा दिवरात्रिप्रमाणतेति, तत्र च पञ्चदशमुहुर्ते दिने रात्रौ वा पौरुषीप्रमाणं त्रयो मुहूत्तस्त्रियश्च मुहूर्त्तचतुर्भागा भवन्ति, दिनचतुर्भागरूपत्वात्तस्याः , एतदेवाह-'चउभागे' त्यादि, चतुर्भागरूपो यो मुहूर्तभागस्तेनोना चतुर्भागमुहूर्त
भागोना चत्वारो मुहर्ता यस्यां पौरुष्यां सा तथेति। ११/१२६. से किं तं अहाउनिव्वत्तियकाले' इत्यादि, इह च 'जेणं'
ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन 'अहाउयं निव्वत्तिय ति यत्प्रकारमायुष्कं-जीवितमन्तर्मुहूर्त्तादि
यथाऽऽयुष्कं 'निर्वर्तितं निबद्धं। ११/१२७. 'जीवो वा सरीरे' त्यादि, जीवो वा शरीरात् शरीरं वा
जीवात् वियुज्यत इति शेषः, वा शब्दौ शरीरजीवयोरवधि
भावस्येच्छानुसारिताप्रतिपादनार्थाविति। ११/१२८. से किं तं अद्धाकाले' इत्यादि, अद्धाकालोऽनेकविधः
प्रज्ञप्तस्तद्यथा-'समयट्ठयाए' त्ति समयरूपोऽर्थः समयार्थस्तद्धावस्तत्ता तया समयभावेनेत्यर्थः एवमन्यत्रापि, यावत्करणात् 'मुहत्तट्ठयाए' इत्यादि दृश्यमिति। अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह-एस ण' मित्यादि, एषा अनन्तरोक्तोत्सर्पिण्यादिका 'अद्धा दोहारच्छेयणेणं ति द्वौ हारौ-भागौ यत्र छेदने द्विधा वा कारः-करणं यत्र तद् द्विहारं द्विधाकारं वा तेन 'जाहे' ति यदा तदा समय इति शेषः 'सेत्त' मित्यादि निगमनम्। 'असंखेज्जाण' मित्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः स समुदयसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते.
'सालिउद्देसए' त्ति षष्ठशतस्य सप्तमोद्देशके। ११/१२९. पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त
इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह११/१३०. 'नेरइयाण' मित्यादि, 'ठितिपयं' ति प्रज्ञापनायां चतुर्थं
पदं अथ पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन्
प्रश्नयन्नाह११/१३१. 'अत्थि णा' मित्यादि, ‘खये' त्ति सर्वविनाशः 'अवचए'
त्ति देशतोऽपगम इति। अथ पल्योपमादिक्षयं तस्यैव सुदर्शनस्य चरितेन
दर्शयन्निदमाह११/१३२. 'एवं खलु सुदंसणे' त्यादि। ११/१३३. 'तंसि तारिसगंसि' त्ति तस्मिंस्तादृशके वक्तुम
शक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः 'दूमियघट्ठमट्ठ' त्ति
दूमितं-धवलितं घृष्टं कोमलपाषाणादिना अत एव मष्टं--मसणं यत्तत्तथा तस्मिन् विचित्तउल्लोयचिल्लियतले' त्ति विचित्रोविविधचित्रयुक्तः उल्लोकः-उपरिभागो यत्र 'चिल्लियं ति दीप्यमानं तलं च-अधोभागो यत्र तत्तथा तत्र 'पंचवन्नसरस. सुरभिमुक्कपुप्फपुंजोवयारकलिए' त्ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा। तत्र 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे' ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्भूतः-ऊद्भुतस्तेनाभिराम-रम्यं यत्तत्तथा तत्र, कुन्दरुक्का-चीडा तुरुक्कं-सिल्हकं, 'सुगंधिवरगंधिए' त्ति सुगन्धयः-सद्गन्धाः वरगन्धाः-वरवासाः सन्ति यत्र तत्तथा तत्र, 'गंधवट्टिभूए' त्ति सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पे 'सालिंगणवट्टिए' ति सहालिङ्गनवा-शरीरप्रमाणोपधानेन यत्तत्तथा तत्र 'उभओ विव्वोयणे' उभयतः-शिरोऽन्त. पादान्तावाश्रित्य विव्वोयणे-उपधानने यत्र तत्तथा। तत्र 'दुहओ उन्नए' उभयत उन्नते 'मज्झेणयगंभीरे मध्ये नतं च-निम्न गम्भीरं च महत्त्वाद् यत्तत्तथा तत्र; अथवा मध्येन च-मध्यभागेन च गम्भीरे यत्तत्तथा, (पण्णत्त), 'गंडविव्वोयणे' ति क्वचिद् दृश्यते तत्र च सुपरिकर्मितगण्डोपधाने इत्यर्थः। 'गंगापुलिणवालुउद्दालसालिसए' गङ्गापुलिनवालुकाया योऽवदाल:अवदलन पादादिन्यासेऽधोगमनमित्यर्थः तेन सदृशकमतिमृदुत्वाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादीनामयं न्याय इति, 'उवचियखोमियदुगुल्लपट्टपडिच्छायणे' 'उवचिय' ति परिकर्मितं यत् क्षौमिकं दुकूलं-कासिकमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः-शाटकः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा। तत्र 'सुविरइयरयत्ताणे' सुष्ठ विरचितं-रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा। तत्र 'रतंसुयसंवुए' रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते। 'आइणगख्यबूरनवणीयतूलफासे' आजिनकं-- चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति स्तं च-कप्पासपक्ष्म बूरं च-वनस्पतिविशेषः नवनीतं च-म्रक्षणं तूलश्च-अर्कतूल इति द्वन्द्वस्तत एषामिव स्पर्शो यस्य तत्तथा। तत्र 'सुगंधवरकुसुमचुन्नसयणोक्यारकलिए ति सुगन्धीनि यानि वरकुसुमानि चूर्णा एतद्व्यतिरिक्ततथाविधशय-नोपचाराश्च तैः कलितं यत्तत्तथा। तत्र 'अद्धरत्तकालसमयंसि' ति समयः समाचारोऽपि भवतीति कालेन विशेषितः कालरूपः समयः कालसमयः स चानर्द्धरात्रिरूपोऽपि भवतीत्यतोऽ-र्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपः कालसमयोऽर्द्धरात्रकालसमयस्तत्र 'सुत्तजागर' ति नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति?-'ओहीरमाणी' त्ति प्रचलायमाना, ओरालादिविशेषणानि पूर्ववत् ‘सुविणे' त्ति स्वप्नक्रियायां 'हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुर - मणिज्जपेच्छणिज्जं' हारादय इव पाण्डुरतर:-अतिशुक्लः उरु:-विस्तीर्णो रमणीयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org