________________
भगवती वृत्ति
५६१
परिशिष्ट-५ : श. ११ : उ. १० : सू. ११३
'किं कारणं' ति कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरमअवगाहनातुल्यत्वात्, केषामियमित्याह-जीवनिगोदगोलानाम्, अवगाहनातुल्यत्वं चैषामङ्गलासङ्ख्येयभागमात्रावमाहित्वादिति प्रश्नः, यस्मादेवं 'तो' त्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्ति। एतस्यैव भावनार्थमुच्यतेगोलेहि हिए लोगे आगच्छइ जं तमेगजीवस्स। उक्कोसपयगयपएसरासितुल्लं हवइ जम्हा॥२१॥ 'गोलैः' गोलावगाहनाप्रदेशैः कल्पनया दशसहस्रसङ्ख्यैः 'हृते' विभक्ते हृतभाग इत्यर्थः 'लोके' लोकप्रदेशराशौ कल्पनया एककोटीशतप्रमाणे 'आगच्छति' लभ्यते 'यत्' सर्वगोलसङ्ख्यास्थानं कल्पनया लक्षमित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मात्तस्माद्गोला उत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्तीति प्रकृतमेवेति। एवं गोलकानामुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थितं, पुनस्तदेव प्रकारान्तरेण समर्थयतिअहवा लोगपएसे एक्केक्के ठविय गोलमेक्केक्कं। एवं उक्कोसपएक्कजियपएसेसु मायति॥२२॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् 'स्थापय' निधेहि विवक्षितसमत्वबुभुत्सो! गोलकमेकैकं, ततश्च एवम्' उक्तक्रमस्थापने उत्कृष्टपदे ये एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति गोला इति गम्यं, यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, ते च कल्पनया किल लक्षप्रमाणा उभयेऽपीति। अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति विभणिषुस्तेषां सर्वजीवानां च तावत्समतामाहगोलो जीवो य समा पएसो जं च सव्वजीवावि। होति समोगाहणया मज्झिमओगाहणं पप्प ॥२३॥ गोलको जीवश्च समौ प्रदेशतः-अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपि प्रदेशदशसहस्रयामवगाढत्वात्, 'जं च' त्ति यस्माच्च सर्वजीवा अपि सूक्ष्मा भवन्ति समावगाहनका मध्यमावगाहनामश्रित्य, कल्पनया हि जधन्यावगाहना पञ्चप्रदेशसहस्राणि उत्कृष्टा तु पञ्चदशेति द्वयोश्च मीलनेनार्दीकरणेन च दशसहस्राणि मध्यमा भवतीति। तेण फुडं चिय सिद्धं एगपएसंमि जे जियपएसा। ते सव्वजीवतुल्ला सुणसु पुणो जह विसेसहिया।॥२४॥ इह किलासद्भावस्थापनया कोटीशतसङ्ख्यप्रदेशस्य जीवस्याकाशप्रदेशदशसहस्यामवगाढस्य जीवस्य प्रतिप्रदेशं प्रदेशलक्ष भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्तिना जीवलक्षण गणितं कोटीसहस्रं भवति, पुनरपि च तदेकगोलवर्तिना निगोदलक्षण गुणितं कोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव,
तथाहि-कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटीसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति। अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति दर्श्यतेजं संति केइ खंडा गोला लोगंतवत्तिणो अन्ने। बायरविग्गहिएहि य उक्कोसपयं जमब्भहियं ॥२५॥ यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्तिनः 'अन्ने' त्ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात्, ततश्च येन जीवराशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमेवेति तत्त्वतो विशेषाधिकं भवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणादुक्तेति, तथा बादरविग्रहिकैश्च-बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद्यस्मात्सर्वजीवराशेरभ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयमत्र भावनाबादरविग्रहिगतिकादीनामनन्तानां जीवानां सूक्ष्मजीवासङ्ख्येयभागवर्त्तिनां कल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशेः कोटीप्रायसङ्ख्यस्य मध्यादुत्कर्षतोऽसङ्ख्येभागस्य कल्पनया शतसङ्ख्यस्य विवक्षितसूक्ष्मगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येकं जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानं कोट्याऽधिकं भवतीति। यस्मादेवंतम्हा सव्वेहितो जीवेहिंतो फुडं गहेयव्वं । उक्कोसपयपएसा होति विसेसाहिया नियमा॥२६॥ इदमेव प्रकारान्तरेण भाव्यतेअहवा जेण बहुसमा सुहुमा लोएऽवगाहणाए य। तेणेक्केक्कं जीवं बुद्धीऍ विरल्लए लोए॥२७॥ यतो बहसमाः-प्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात्, खण्डगोलकैर्व्यभिचारपरिहारार्थं चेह बहुग्रहणं, 'सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः 'लोके' चतुर्दशरज्ज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात्, तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजीवानां च समतापरिज्ञानार्थमेकैकं जीवं बुद्ध्या 'विरल्लए' त्ति केवलिसमुद्घातगत्या विस्तारयेल्लोके, अयमत्र भावार्थः-यावन्तो गोलकस्यैकत्र प्रदेशे जीवप्रदेशा भवन्ति कल्पनया कोटीकोटीदशकप्रमाणास्तावन्त एव विस्तारितेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति, अत एवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org