SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-५: श. ११ : उ. १० सू. ११३ ५६० भगवती वृत्ति काक्वा चेदमध्येयं, तेन नेहेदं ग्राह्यमित्यर्थः स्यात्, अथ कस्मादेवम् ? इत्याह-'उक्कोसपयावि एत्तिया चेव' त्ति न केवलं गोलका असङ्ख्येयाः उत्कर्षपदान्यपि परिपूर्णगोलकप्ररूपितानि एतावन्त्येव-असङ्ख्येयान्येव भवन्ति यस्मात्ततो न नियतमुत्कृष्टपदं किञ्चन स्यादिति भावः, यत्पुनरुत्कृष्टपदं नैश्चयिकं भवति सर्वोत्कर्षयोगाद् यदिह ग्राह्यमित्यर्थः तद्वक्ष्ये। तदेवाहवायरनिगोयविग्गहगहयाई जत्थ समहिया अन्ने। गोला हुज्ज सुबहुला नेच्छइयपयं तदुक्कोसं॥१०॥ बादरनिगोदानां-कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः आदिशब्दश्चेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये-सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका भवेयुः सुवबो नैश्चयिकपदं तदुत्कर्ष, बादरनिगोदा हि पृथिव्यादिषु पृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न सूक्ष्मनिगोदवत्सर्वत्रत्यतो यत्र क्वचित्ते भवन्ति तदुत्कृष्टपदं तात्त्विकमिति भावः। एतदेव दर्शयन्नाहइहरा पडुच्च सुहुमा बहुतुल्ला पायसो सगलगोला। तो बायराइगहणं कीरइ उक्कोसयपयंमि॥११॥ 'इहर' ति बादरनिगोदाश्रयणं विना सूक्ष्मनिगोदान् प्रतीत्य बहुतुल्याः-निगोदसङ्ख्यया समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचारपरिहारार्थं, क एते? इत्याह-सकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किञ्चिदुत्कृष्टपदं लभ्यते, यत एवं ततो बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे। अथ गोलकादीनां प्रमाणमाहगोला य असंखेज्जा होति निओया असंखया गोले। एक्केक्को उ निगोओ अणंतजीवो मुणेयव्वो॥१२॥ अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहनामानमभिधित्सुराहलोगस्स य जीवस्स य होन्ति पएसा असंखया तुल्ला। अंगुलअसंखभागो निगोयजियगोलगोगाहो॥१३॥ लोकजीवयोः प्रत्येकमसङ्ख्येयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्गलासङ्ख्येयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना। तामेव समर्थयन्नाहजमि जिओ तमेव उ निगोअ तो तम्मि चेव गोलोवि। निप्फज्जइ जं खेत्ते तो ते तुल्लावगाहणया॥१४॥ यस्मिन् क्षेत्रे जीवोऽवगाहते तस्मिन्नेव निगोदो, निगोदव्याप्त्या जीवस्यावस्थानात्, 'तो' त्ति ततः तदनन्तरं तस्मिन्नेव गोलोऽपि निष्पद्यते, विवक्षितनिगोदावगाहनातिरिक्तायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमात्रत्वाद् गोलकावगाहनाया इति, यद्-यस्मात्क्षेत्रे-आकाशे ततस्तेजीवनिगोदगोलाः 'तुल्यावगाहनाकाः' समानावगाहनाका इति। अथ जीवाद्यवगाहनासमतासामर्थ्येन यदेकत्र प्रदेशे जीवप्रदेशमानं भवति तद्विभणिषुस्तत्प्रस्तावनार्थं प्रश्न कारयन्नाहउक्कोसपय पएसे किमेगजीवप्पएसरासिस्स। होज्जेगनिगोयस्स व गोलस्स व किं समोगाढं ?॥१५॥ तत्र जीवमाश्रित्योत्तरम्जीवस्स लोगमेत्तस्स सुहुमओगाहणावगाढस्स। एक्केक्कंमि पएसे होति पएसा असंखेज्जा॥१६॥ ते च किल कल्पनया कोटीशतसङ्ख्यस्य जीवप्रदेशराशेः प्रदेशदशसहस्रीस्वरूपजीवावगाहनया भागे हृते लक्षमाना भवन्तीति। अथ निगोदमाश्रित्याहलोगस्स हिए भागे निगोयओगाहणाएँ जं लगढ़। उक्कोसपएऽतिगयं एत्तियमेक्केक्कजीवाओ॥१७॥ 'लोकस्य' कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्ध तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतं-अवगाढमेतावदेकैकजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः। अनेन निगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमथ गोलकसत्कं यत्तत्रावगाढं तदर्शयतिएवं दव्वट्ठाओ सव्वेसिं एक्कगोलजीवाणं। उक्कोसपयमइगया होति पएसा असंखगुणा।।१८॥ यथा निगोदजीवेभ्योऽसङ्ख्येयगुणास्तत्प्रदेशा उत्कृष्टपदेऽतिगता एवं 'द्रव्यार्थात्' द्रव्यार्थतया न तु प्रदेशार्थतया 'सव्वेसिं' ति सर्वेभ्य एकगोलगतजीवद्रव्येभ्यः सकाशादुत्कृष्टपदमतिगता भवन्ति प्रदेशा असङ्ख्यातगुणाः। इह किलानन्तजीवोऽपि निगोदः कल्पनया लक्षजीवः, गोलकश्चासङ्ख्यातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्च लक्षस्य लक्षगुणने कोटीसहस्रसङ्ख्याः कल्पनया गोलके जीवा भवन्ति, तत्प्रदेशानां च लक्षं लक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसङ्ख्यया लक्षगुणने कोटीको दशकसङ्ख्या एकत्र प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति। गोलकजीवेभ्यः सकाशादेकत्र प्रदेशेऽसङ्ख्येयगुणा जीवप्रदेशा भवन्तीत्युक्तमथ तत्र गुणकारराशेः परिमाणनिर्णयार्थमुच्यतेतं पुण केवइएणं गुणियमसंखेज्जयं भवेज्जाहि। भन्नइ दब्वट्ठाइ जावइया सव्वगोलत्ति॥१९॥ तत्पुनरनन्तरोक्तमुत्कृष्ट पदातिगतजीवप्रदेशराशिसम्बन्धि 'कियता' किंपरिमाणेनासङ्ख्येयराशिना गुणितं सत 'असंखेज्जयं' ति असङ्ख्येयकम् असङ्ख्यातगुणनाद्वारायातं 'भवेत्' स्यादिति?, भण्यते अनोत्तरं, द्रव्यार्थतया न तु प्रदेशार्थतया यावन्तः 'सर्वगोलकाः' सकलगोलकास्तावन्त इति गम्यं, स चोत्कृष्टपदगतैकजीवप्रदेशराशिमन्तव्यः सकलगोलकानां तत्तुल्यत्वादिति। किं कारणमोगाहणतुल्लत्ता जियनिगोयगोलाणं। गोला उक्कोसपएक्कजियपएसेहिं तो तुल्ला ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy