SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ५५९ लोकैक प्रदेशाधिकारादेवेदमाह ११ / ११३. 'लोगस्स ण' मित्यादि, अस्य व्याख्या- यथा किलैतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति एवं लोकाकाशप्रदेशेऽनन्तजीवावगाहेनैकैकस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका निगोदाः पृथिव्यादिसर्वजीवासज्येयकतुल्याः सन्ति तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः तेभ्यश्च सर्वजीवा असङ्ख्येयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका जीवप्रदेशा इति । अयं च सूत्रार्थोऽमूभिर्वृद्धोक्तगाथाभिर्भावनीयःलोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं | उक्कोसपए य तहा सव्वजियाणं च के बहुया ? ॥ १ ॥ इति प्रश्नः, उत्तरं पुनरत्र थोवा जहण्णयपए जियप्पएसा जिया असंखगुणा । उक्कोसपयपएसा तओ विसेसाहिया भणिया ॥ २ ॥ अथ जघन्यपदमुत्कृष्टपदं चोच्यते तत्थ पुण जहन्नपयं लोगंतो जत्थ फासणा तिदिसिं । छद्दिसिक्कोसपयं समत्तगोलंमि णण्णत्थ ॥ ३ ॥ तत्र- तयोजर्धन्येतरपदयोजर्धन्यपदं लोकान्ते भवति 'जत्थ' त्ति यत्र गोलके स्पर्शना निगोददेशैस्तिसृष्वेव दिक्षु भवति, शेषदिशामलोकेनावृतत्वात् सा च खण्डगोल एव भवतीति भावः । 'छद्दिसिं' ति यत्र पुनर्गोलके षट्स्वपि दिक्षु निगोददेशैः स्पर्शना भवति तत्रोत्कृष्टपदं भवति, तच्च समस्तगौलैः परपूर्णगोलके भवति नान्यत्र, खण्डगोलके न भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति । अथ परिवचनामाशङ्कमान आह उक्कोसमसंखगुणं जहन्नयाओ पयं हवइ किं तु ? | नणु तिदिसिफुसणाओ छद्दिसिफुसणा भवे दुगुणा ॥ ४ ॥ उत्कर्षं- उत्कृष्टपदमसङ्ख्यातगुणं जीवप्रदेशापेक्षया जघन्यकात्पदादिति गम्यं भवति किन्तु कथं तु न भवतीत्यर्थः, कस्मादेवम् ? इत्याह-'ननु' निश्चितम् अक्षमायां वा ननुशब्दः, त्रिदिकस्पर्शनायाः सकाशात् षड़दिक्स्पर्शना भवेद्विगुणेति, इह च काकुपाठाद्धेतुत्वं प्रतीयत इति, अतो द्विगुणमेवोत्कृष्टं पदं स्यादसङ्ख्यातगुणं च तदिष्यते, जघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसङ्ख्यातगुणसर्वजीवेभ्यो विशेषाधिक जीवप्रदेशोपेतत्वात्तस्येति । इहोत्तरम् - थोवा जहन्नयप निगोयमित्तावगाहणाफुसणा । फुसणासंखगुणत्ता उक्कोसपए असंखगुणा ॥५ ॥ स्तोका जीवप्रदेशा जघन्यपदे, कस्मात् ? इत्याह- निगोदमात्रे क्षेत्रेऽवगाहना येषां ते तथा एकावगाहना इत्यर्थः तैरेव यत्स्पर्शनं - अवगाहनं जघन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं Jain Education International परिशिष्ट-५ : श. ११ : उ. १० : सू. ११३ खण्डगोलक निष्पादकनिगोदैस्तस्यासंस्पर्शना तस्मात्. दित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेशसदृशो हि जघन्यपदाख्यः प्रदेशः तं चालोकसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं स्पृशति, तस्य च प्रत्येकं कल्पनयैव प्रदेशलक्षं तत्रावगाढमित्येवं जघन्यपदे कोटी जीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र जीवप्रदेशा इति । अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते- 'फुसणासंखगुणत्त' ति स्पर्शनायाः - उत्कृष्टपदस्य पूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनाया यदसङ्ख्यातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुत्कृष्टपदेऽसङ्ख्यातगुणा जीवप्रदेशा जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदैरेकावगाहनैरसङ्ख्येयैः तथोत्कृष्टपदाविमोचनेनैकैकप्रदेशपरिहानिभिः प्रत्येकमसंङ्ख्येयैरेव स्पृष्टं तच्च किल कल्पनया कोटीसहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाहनाज्जीवप्रदेशानां दशकोटी कोट्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्ख्येयगुणा भावनीया इति । अथ गोलकप्ररूपणायाह उक्कोसपयममोत्तुं निगोय ओगाहाणाए सव्वत्तो । निप्फाइज्जइ गोलो पएसपरिवुडिहाणीहिं ॥ ६ ॥ 'उत्कृष्टपदं' विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः 'सर्वतः ' सर्वासु दिक्षु निगोदान्तराणि स्थापयद्भिनिष्पाद्यते गोलः कथं ?, प्रदेशपरिवृद्धिहानिभ्यां कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रामद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः एवमेकगोलकनिष्पत्तिः, स्थापना चेयम्-01 गोलकान्तरकल्पनायाह तत्तोच्चि गोलाओ उक्कोसपयं मुइत्तु जो अन्नो । होइ निगोओ तंमिवि अन्नो निप्फज्जती गोलो ॥ ७ ॥ तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, कथम् ?, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति । तथा च यत्स्यात्तदाह एवं निगोयमेत्ते खेत्ते गोलस्स होइ निप्फत्ती । एवं निप्पज्जंते लोगे गोला असंखिज्जा ॥८ ॥ 'एवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्तिः, विवक्षित निगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशात्, एवं च निष्पद्यन्ते लोके गोलका असंख्येया, असङ्ख्येयत्वात् निगोदावगाहनानां प्रतिनिगोदावगाहनं च गोलकनिष्पत्तेरिति । अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? इत्यस्यामाशङ्कायामाहववहारएण इमं उक्कोसपयावि एत्तिया चेव । जं पुण उक्कोसपयं नेच्छइयं होइ तं वोच्छं ॥ ९ ॥ 'व्यवहारनयेन' सामान्येन 'इदम्' अनंतरोक्तमुत्कृष्टपदमुक्तं, For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy