________________
परिशिष्ट - ५ : श. ९ : उ. ३३ : सू. २२४-२२८
भगवती वृत्ति
५४४
एवेति 'चंडे' त्ति रौद्रः 'दुक्खे' त्ति दुःखहेतुः 'दुग्गे' त्ति ९ / २२९. 'अत्थेगइया समणा णिग्गंथा एयमहं णो सद्दहंति' त्ति ये च कष्टसाध्य इत्यर्थः 'तिब्वे' त्ति तीव्रं तिक्तं निम्बादिद्रव्यं तदिव तीव्रः किमुक्तं भवति ? - 'दुरहियासे' त्ति दुरधिसाः 'दाहवक्कंतिए' त्ति दाहो व्युत्क्रान्तः- उत्पन्नो यस्यासौ दाहव्युत्क्रान्तः स एव दाहव्युत्क्रान्तिकः । ९ / २२५. 'सेज्जासंथारगं' ति शय्यायै शयनाय संस्तारकः शय्यासंस्तारकः ॥
९/२२७, 'बलियतरं' ति गाढतरं 'किं कडे कज्जइ' त्ति किं निष्पन्न उत निष्पाद्यते ?, अनेनातीतकाल-निर्देशेन वर्त्तमानकालनिर्देशेन चकृतक्रियमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता । ९/२२८. ततश्चासौ
स्वकीयवचनसंस्तारककर्तृसाधुवचनयोर्विमर्शात् प्ररूपितवान् क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि - यत्कृतं तत्क्रियमाणं न भवति, विद्यमानत्वाच्चिरन्तनघटवत्, अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाणत्वादादिसमयवदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्याद् अकृतविषय एव तस्याः सफलत्वात्, तथा पूर्वमसदेव भवद्दृश्यते इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते यतो नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासकादिकाले, किं तर्हि, तत्क्रियाऽवसाने, यतश्चैवं ततो न क्रियाकालेषु युक्तं कार्यं किन्तु क्रियाऽवसान एवेति, आह च भाष्यकारः"जस्सेह कज्जमाणं कयंति तेणेव विज्जमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥ १ ॥ कयमिह न कज्जमाणं तब्भावाओ चिरंतणघडोव्व । अहवा कiपि कीरइ कीरउ निच्चं न य समत्ती ॥२॥ किरियावेफल्लंपि य पुव्वमभूयं च दीसए हुतं । दीस दीहो य जओ किरियाकालो घडाईणं ॥ ३ ॥ नारंभे च्चिय दीसइ न सिवाददाइ दीसइ तदंते । तो हि किरियाकाले जुत्तं कज्जं तदंतंमि ॥ ४ ॥' इति ।
न श्रद्दधति तेषां मतमिदं नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् । खपुष्पवत्, यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपि क्रियतामसत्त्वाविशेषात्, अपि च-ये कृतकरणपक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्त्तन्ते, तथाहि नात्यन्तमसत् क्रियतेऽसद्भावात् खरविषाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावैफल्यं च स्यादसत्त्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषेणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरू, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तीति, यच्चोक्तं- 'पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं सद्भवदृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविषाणमपि न दृश्यते यच्चोक्तं- 'दीर्घः क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पन्नानां परस्परे - णेषद्विलक्षणानां सुबह्वीनां स्थासकोसादीनामारम्भसम निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं ? येनोच्यते- दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति यच्चोक्तं- 'नारम्भ एव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ?, शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति ततः शिवकादिकाले कथं घटो दृश्यतामिति ?, किंच- अन्त्यसमय एव घटः समारब्धः १, तत्रैव च यद्यसौ दृश्यते तदा को दोषः ?, एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य निरंशत्वात, यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कथं वा एष्यति ? क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात्, तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च
१. यस्येह क्रियमाणं कृतमिति मतं तेनेह विद्यमानस्य करणक्रियाऽङ्गीकृता तथा च बहुदोषापत्तिः ॥ १ ॥ इह कृतं न क्रियमाणं तद्भावाच्चिरन्तनघट इव । अथवा कृतमपि चेत् क्रियते करोतु नित्यं न च समाप्तिः ॥ २ ॥ क्रियावैफल्यमपि च पूर्वमभूतं च भवदृश्यते (दृष्टापलापः) यतो घटादीनां क्रियाकालश्च दीर्घो दृश्यते ॥ ३ ॥ न चारम्भे दृश्यते (घटादि) न स्थासकाद्यद्धायां किन्तु तदंते ततः क्रियाकाले कार्यं न युक्तं युक्तम् तदन्त एव ॥ ४ ॥
२. खपुष्पमिवाकृतं न क्रियतेऽभावादिति
स्थविरमतम् ।
अथ चाकूतमपि क्रियते तदा खरविषाणमपि क्रियताम् ॥ १ ॥
Jain Education International
थेराण मयं नाकयमभावओ कीरए खपुष्पं व। अहव अकiपि कीरइ कीरउ तो खरविसाणंपि ॥ १ ॥
नित्यक्रियादयो दोषा ननु तुल्या असति कष्टतरका वा । खरविषाणमपि पूर्वमभूतं त्वया किं न दृश्यते ? || २ || प्रतिसमयोत्पन्नानां सुबहूनां परस्परविलक्षणानां । क्रियाणां कालो दीर्घो यदि दृश्यते कुम्भस्य किम् ? || ३ || अन्यारम्भेऽन्यत् कथं दृश्यताम् ? यथा पटारम्भे घटः । शिवकादयो न कुभो दृश्यतां कथं स तत्काले ? ॥४॥ अन्त एवं यद्यारब्धोऽन्त एव यदि दृश्यते को दोषः । वर्तमानेऽकृतं च चेत्कथं अतीते क्रियतां ? भविष्यति ॥५॥
कथं
चैष्यति
काले ?
For Private & Personal Use Only
www.jainelibrary.org