SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - ५ : श. ९ : उ. ३३ : सू. २०४-२०९ आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च । भोगास्तेनैव गुरुत्वेन व्यवहृतास्तद्वंश्याश्च । 'जहा उववाइए' त्ति करणादिदं दृश्यं'राइन्ना खत्तिया इक्खागा नाया कोरव्वा' इत्यादि, तत्र 'राजन्या' आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्च प्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः ' इक्ष्वाकुवंशविशेषभूताः 'कोरव्व' त्ति कुरवः कुरुवंशजाः, अथ कियदन्तमिदं सूत्रमिहाध्येयम् ? इत्याह-जाव महापुरिष वग्गुरापरिक्खित्ते' त्ति वागुरा- मृगबन्धनं वागुरेव वागुरा सर्वतः परिवारणसाधर्म्यात् पुरुषाश्च ते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया परिक्षिप्ता ये ते तथा । ९ / २०६. 'महंआस' त्ति महाश्वाः किम्भूताः ? इत्याह-'आसवरा' अश्वानां मध्ये वराः 'आसवार' त्ति पाठान्तरं तत्र 'अश्ववाराः ' अश्वारूढपुरुषाः 'उभओ पासिं' ति उभयोः पार्श्वयोः 'नाग' ति नागाहस्तिनः नागवरा - हस्तानां प्रधानाः' 'रहसंगेल्लि' ति रथसमुदायः । ९/२०७. 'अब्भुग्गयभिंगारे' त्ति अभ्युद्गतः - अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा परगहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा 'ऊसवियसेयच्छत्ते' उच्छ्रितश्वेतच्छत्रः 'पवीइयसेयचामरवालवीयणीए प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे बालव्यजनिके च यं स तथा । ९ / २०८. 'जहा उववाइए' त्ति करणादिदं दृश्यं - 'कामत्थिया भोगत्थिया' कामौ - शुभशब्दरूपे भोगाः - शुभगन्धादयः 'लाभत्थिया' धनादिलाभार्थिनः 'इड्डिसिय' त्ति रूढिगम्याः 'किट्टिसिय' त्ति किल्बिषिका भाण्डादय इत्यर्थः, क्वचित् किट्टिसिकस्थाने 'किव्विसिय' त्ति पठ्यते 'कारोडिया' कापालिकाः 'कारवाहिया' कारं - राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः करवाधिता वा 'संखिया' चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिका:- चक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया ' गलावलम्बितसुवर्णादिमयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिका :- चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' मागधाः इज्जिसिया पिंडिसिया घंटिय' त्ति क्वचिदृश्यते, तत्र च इज्यां - पूजामिच्छन्त्येषयन्ति वा ये ते इज्यैषास्त एव स्वार्थिके कप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरं पिण्डो-भोजनं, घाण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं' ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह - 'इट्ठाहिं' इष्यन्ते स्मेतीष्टास्ताभिः, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह-'कंताहिं कमनीयशब्दाभिरित्यर्थः 'पियाहिं' प्रियार्थाभिः 'मणुन्नाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः 'मणामाहिं' Jain Education International ५४२ भगवती वृत्ति मनसाऽम्यन्ते-गम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमास्ताभिः । 'ओरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणप्राप्तिसूचिकाभिः 'सिवाहिं' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धन्नाहिं' धनलम्भि काभिः 'मंगल्लाहिं' मङ्गले- अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहिं' शोभायुक्ताभिः 'हिययगमणिज्जाहिं' गम्भीरार्थतः सुबोधाभिरित्यर्थः 'हिययपल्हायणिज्जाहिं' हृदयगतकोपशोकादिग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहुरगंभीरगाहियाहिं' मिताः - परिमिताक्षरा मधुराः - कोमलशब्दाः गम्भीरा- महाध्वनयो दुरवधार्यमप्यर्थं श्रोतॄन् ग्राहयन्ति यास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्म्मधारयोऽतस्ताभिः 'मियमहुरगंभीरसस्सिरीयाहिं' ति क्वचिद् दृश्यते, तत्र च मिताः अक्षरतो मधुराः शब्दतो गम्भीरा- अर्थतो ध्वनितश्च स्वश्रीः - आत्मसम्पद् यासां तास्तथा ताभिः 'अट्टसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः अथवा सइ - बहुफलत्वं अर्थतः सइयाओ अट्टसइयाओ 'ताहिं अपुणरुत्ताहिं वग्गूहिं' वाग्भिर्गीर्भिरेकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति 'अणवरयं' सन्ततम् 'अभिनंदता ये' त्यादि तु लिखितमेवास्ते । तत्र चाभिनन्द्रयन्तो जय जीवेत्यादि भणन्तोऽभिवृद्धिमाचक्षाणाः 'जय जय' त्याशीर्वचनं भक्तिसम्भ्रमे च द्विर्वचनं 'नंदा धम्मेणं' ति 'नन्द' वर्द्धस्व धर्मेण एवं तपसाऽपि अथवा जय जय विपक्षं, केन ? - धर्मेण हे नन्द ! इत्येवमक्षरघटनेति 'जय जय नंदा! भद्दं ते' जय त्वं हे जगन्नन्दिकर! भद्रं ते भवतादिति गम्यं 'जियविग्धोऽविय' त्ति जितविघ्नश्च 'वसाहि तं देव! सिद्धिमज्झे' त्ति वस त्वं हे देव! सिद्धिमध्ये देवसिद्धिमध्ये वा 'निहणाहि ये' त्यादि निर्घातय च रागद्वेषमल्लौ तपसा, कथम्भूतः सन् ? इत्याह- धृतिरेव धनिकं अत्यर्थं बद्धा कक्षा (कच्छोटा) येन स तथा, मल्लो हि मल्लान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्नितिकृत्वोक्तं 'धिइधणिये' त्यादि, तथा 'अप्पमत्तो' इत्यादि, 'हराहि' त्ति गृहाण आराधना - ज्ञानादिसम्यक्पालना सैव पताका आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं - मल्लयुद्धद्रष्टृमहाजनमध्यं तत्र 'हंता परीसहचमूं' ति हत्वा परीषहसैन्यं, अथवा 'हन्ता' घातकः परीषहचम्बा इति विभक्तिपरिणामात् शीलार्थकतन्नन्तत्वाद्वा हन्ता परीषहचमूमिति 'अभिभविय' त्ति अभिभूय - जित्वा - 'गामकंटकोवसग्गाणं' ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः णं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किं बहुना ? - 'धम्मे ते' इत्यादि ॥ ९/२०९ 'नयणमालासहस्सेहिं' ति नयनमालाः - श्रेणीभूतजननेत्र जयप्राप्सनटग्राह्या पङ्क्तयः ' एवं जहा उववाइए' त्ति अनेन यत्सूचितं तदिदं - 'वयणमालासहस्सेहिं अभिथुव्वमाणे २ हिययमाला-सहस्सेहिं अभिनंदिज्जमाणे २' जनमनः समूहैः समृद्धिमुपनीयमानो जय For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy