SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ५४१ परिशिष्ट-५: श.९: उ.३३: सू. २०४ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं सच्छताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खिताणं सनन्दिघोसाणं हेमवयवित्ततिणिसकणगनिज्जुत्तदारुगाणं सुसंविद्धचक्कमंडलधुराणं कालायस. सुकयनेमिजंतकम्माणं आइन्नवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसयबत्तीसतोणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं असिसत्तिकोततोमरसूललउडभिंडिमालधणुबाणसज्जं पायत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं बहवे राईसरतलवरकोडुबियमाडंबिय · इन्भसेट्ठिसेणावइसत्थवाहपभिइओ अप्पेगइया हयगया अप्पेगइया गयगया अप्पेगइया रहगया पुरओ अहाणुपुवीए संपट्ठिय' ति तत्र च 'वरमल्लिहाणाणं' ति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरः केशकलापो येषां ते वरमाल्याधानास्तेषाम्, इकारः प्राकृतप्रभवो 'बालिहाण' मित्यादाविवेति, अथवा वरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवद् घ्राणं-नासिका येषां ते तथा तेषां, क्वचित् 'तरमल्लिहायणाणं' ति दृश्यते तत्र च तरोवेगो बलं, तथा ‘मल मल्ल धारणे' ततश्च तरोमल्लीतरोधारको वेगादिधारको हायनः-संवत्सरो वर्तते येषां ते तरोमल्लिहायनाः-यौवनवन्त इत्यर्थः। अतस्तेषां वरतुरगाणामितियोगः 'वरमल्लिभासणाणं' ति क्वचिदृश्यते, तत्र तु प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः 'चंचुच्चियललियपुलियविक्कमविलासियगईणं' ति चंचुच्चियं ति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम्, अथवा चञ्चुःशुकचञ्चुस्तद्वद्वक्रतया उच्चितम्-उच्चताकरणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चुच्चितं तच्च ललितं क्रीडितं पुलितं च-गतिविशेषः प्रसिद्ध एव विक्रमश्च-विशिष्टं क्रमणं क्षेत्रलङ्घनमिति द्वंद्वस्तदेतत्प्रधाना विलासिता-विशेषेणो. ल्लासिता गतिस्ते तथा तेषां, क्वचिदिदं विशेषणमेवं दृश्यते-'चंचुच्चियललियपुलियचलचवलचंचलगईणं' ति तत्र च चञ्चुरितललितपुलितरूपा चलानां-अस्थिराणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला-अतीवचटुला गतिर्येषां ते। तथा तेषां हरिमेलमउलमल्लियच्छाणं' ति हरिमेलको-वनस्पतिविशेषस्तस्य मुकुलं-कुडालं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां, शुक्लाक्षाणामित्यर्थः, 'थासगअमिलाणचामरगंडपरिमंडियकरीणं' ति स्थासका-दर्पणाकारा अश्वालङ्कारविशेषास्तैरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते तथा तेषां, क्वचित्पुनरेवमिदं विशेषणमेवं दृश्यते-- 'मुहभंडगओचूलगथासगमिलाणचामरगण्डपरिमंडियकडीणं' ति तत्र मुखभाण्डकं-मुखाभरणम् अवचूलाश्च-प्रलम्बमानपुच्छाः स्थासकाः प्रतीताः 'मिलाण त्ति पर्याणानि च येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात्, चमरी (चामर) गण्डपरि मण्डितकटय इति पूर्ववत्, ततश्च कर्मधारयोऽतस्तेषां, क्वचित्पुनरेवमिदं दृश्यते-'थासगअहिलाणचामरगंडपरिमंडिय. कडीणं' ति तत्र तु अहिलाणं-मुखसंयमनं ततश्च 'थासगअहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्मधारयः कार्यः, तथा ईसिं दंताणं' ति 'ईषद्दान्तानां' मनागग्राहितशिक्षाणां गजकलभानामिति योगः ईसिंउच्छंगउन्नयविसालधवलदंताणं' ति उत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवर्त्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविठ्ठदंतोवसोहियाणं' ति इह काञ्चनकोशी-सुवर्णमयी खोला, रथवर्णक तु 'सज्झयाणं सपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरा तु पताका 'सखिखिणीहेमजालपेरंतपरिक्खित्ताणं' ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्णमयस्तदाभरणविशेषस्तेन पर्यन्तेषु परिक्षिप्ता ये ते तथा तेषां. 'सनंदिघोसाणं' ति इह नन्दी-द्वादशतूर्यसमुदायः, तानि चेमानि'भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७। काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो॥४॥' इति 'हेमवयचित्ततिणिसकणगनिजुत्त-दारुगाणं' ति हैमवतानिहिमवद्भिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराणं' ति सुष्ठु संविद्धानि चक्राणि मण्डलाश्च वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं' ति क्वचिदृश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्चवृत्ता धुरो येषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं' ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:-चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां ते तथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताणं' ति आकीर्णैः-जात्यैर्वरतुरगैः सुष्टु संप्रयुक्ता ये ते तथा तेषां 'कुसलनरच्छेयसारहिसुसंपग्गहियाणं' ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिभिश्च-- दक्षप्राजितृभिः सुष्ठ संप्रगृहीता ये ते तथा तेषां 'सरसय. बत्तीसतोणपरिमंडियाणं' ति शरशतप्रधाना ये द्वात्रिंशत्तोणाभस्त्रकास्तैः परिमण्डिता ये ते तथा तेषां 'सकंकडवडेंसगाणं ति सह कङ्कटैः कवचैरवतंसकैश्च शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां 'सचावसरपहरणावरणभरियजुद्धसज्जाणं' ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थमेवेति। अथाधिकृतवाचनाऽनु-श्रियते'तयाणंतरं च णं बहवे उग्गा' इत्यादि, तत्र 'उग्राः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy