SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-५: श.९ उ.३३ : सू. १९५-२०४ ५४० भगवती वृत्ति गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासो नेत्रविकारो, यदाह'हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो भूसमुद्भवः॥१॥' इति, तथा संलापो-मिथोभाषा उल्लापस्तु काकुवर्णनं, यदाह'अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः। काक्का वर्णनमुल्लापः, संलापो भाषणं मिथः॥१॥' इति, 'रूवजोव्वणविलासकलिय' त्ति इह विलासशब्देन स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसावुच्यते, यदाह'स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव। उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात्॥१॥" सुन्दरथण' इत्यनेन 'सुन्दरथणजहणवयणकरचरणणयणलावण्णरूव-जोव्वणगुणोववेय' त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽ-स्तैिरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतियौवनं-तारुण्यं गुणा-मृदुस्वरत्वादयः 'हिमरययकुमुयकुंदेंदुप्पगासं' ति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्द्वस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदाम' ति सकोरेण्टकानि-कोरण्टपुष्पगुच्छ युक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा। ९/१९६. 'नाणामणिकणगरयणविमलमहरिहतवणिज्जउज्जल विचित्तदंडाओ' ति नानामणिकनकरत्नानां विमलस्य महार्हस्य महाघस्य वा तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डको ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः?, उच्यते, कनकं पीतं तपनीयं रक्तमिति। 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येके संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ' त्ति शङ्खाङ्ककुंददकरजसाममृतस्य मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सदृशे ये ते तथा, इह चाको रत्नविशेष इति, 'चामराओ' ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्दिष्टस्तथैव क्वचिद्रूढ-त्वादिति॥ ९/१९७. 'मत्तगयमहामुहाकिइसमाणं' ति मत्तगजस्य यन्महामुर्ख तस्य याऽऽकृतिः-आकारस्तथा समानं यत्तत्तथा। ९/१९९. 'एगाभरणवसणगहियणिज्जोय' ति एकः-एकादश आभरण-वसनलक्षणो गृहीतो निर्योगः-परिकरो व ते तथा। ९/२०४. 'तप्पढमयाए' त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'अट्ठट्ठमंगलग' त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्वाहुः-अष्टसङ्ख्यानि अष्टमङ्गलकसज्ञानि वस्तूनि 'जाव दप्पणं' ति इह यावत्करणादिदं दृश्यं-'नंदियावत्तवद्धमाणगभद्दासणकलसमच्छ' ति तत्र वर्द्धमानकं शरावं (वसंपुटं) पुरुषारूढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए' त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं-'दिव्वा य छत्तपडागा' दिव्येव दिव्या-प्रधाना छत्रसहिता पताका छत्रपताका तथा 'सचामरादरसरझ्यआलोयदरिसणिज्जा वाउन्द्रयविजयवेजयंती य ऊसिय' ति सह चामराभ्यां या सा सचामरा आदर्शो रचितो यस्यां साऽऽदर्शरचिता आलोकं-दृष्टिगोचरं यावद् दृश्यतेऽत्युच्चत्वेन या साऽऽलोकदर्शनीया, ततः कर्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज्ज' ति पाठान्तरे तु सचामरेति भिन्नपदं, तथा दर्शन-जमालेर्दृष्टिपथे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा-सुखप्रदा दर्शनरतिदा सा चासावालोकदर्शनीया चेति कर्मधारयः। काऽसौ? इत्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्भूतविजयवैजयन्ती 'उच्छ्रिता' उच्चा, कथमिव ? 'गगणतलमणुलिहंती' ति गगनतलं आकाशतलमनुलिखन्तीवानुलिखन्ती अत्युच्चतयेति। 'जहा उववाइए' ति अनेन यत्सूचितं तदिदं-'तयाणंतरं च णं वेरुलियभिसंतविमलदंडं' भिसंत' ति दीप्यमानं 'पलंबकोरंटमल्लदामोवसोहियं चंदमंडलनिभं समूसियं विमलमायवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजुगसमाउत्तं' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपायत्तपरिक्खित्त' बहवो ये किङ्कराः-प्रतिकर्म प्रभोः पृच्छाकारिणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातं च-पत्तिसमूहः बहुकिङ्करादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओ अहाणुपुव्वीए संपट्ठियं। 'तयाणंतरं च णं बहवे लडिग्गाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढयग्गाहा ___ वीणग्गाहा कूवयग्गाहा' कुतुपः-तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो-द्रम्मादिभाजनं ताम्बूलार्थ पूगफलादिभाजनं वा 'पुरओ अहाणुपुव्वीए संपट्ठिया। तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो-शिखाधारिणः जटिणो-जटाधराः पिच्छिणो-मयूरादिपिच्छवाहिनः हासकरा ये हसन्ति डमरकरा-विड्रवरकारिणः दवकराः-परिहासकारिणः चाटुकरा:-प्रियवादिनः कंदप्पिया कामप्रधानकेलिकारिणः कुकुइया-भाण्डाः भाण्डप्राया वा 'वायंता गायंता य नच्चंता य हासंता य भासंता य सासिंता य शिक्षयन्तः 'साविता य' इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः 'रक्खंता य' अन्यायं रक्षन्तः 'आलोकं च करेमाणे' त्यादि तु लिखितमेवास्ति इति। एतच्च वाचनान्तरे प्रायः साक्षादृश्यत एव, तथेदमपरं तत्रैवाधिकं-'तयाणंतरं च णं जच्चाणं वरमल्लिहाणाणं चंचुच्चियललियपुलयविक्कमविलासियगईणं हरिमेलामउलमल्लियच्छाणं थासगअमिलाणचमरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं ईसिं दंताणं ईसिं मत्ताणं ईसिं उन्नयविसालधवलदंताणं कंचणकोसीपविट्ठदंतोवसोहियाणं अट्ठसयं गयकलहाणं पुरओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy