________________
भगवती वृत्ति
यद्वयो-यौवनं तस्य भावः- सत्ता विद्यते यासां तास्तथा 'विसुद्ध कुलवंससंताणतंतुवद्बणगब्भब्भवप्रभाविणीओ' ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भा:प्रकृष्टगर्भास्तेषां य उद्भवः सम्भूतिस्तत्र यः प्रभावः - सामर्थ्यं
स
यासामस्ति तास्तथा 'मणाणुकूल - हियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्म्मधारयः 'अट्ट तुज्झ गुणवल्लभाओ' त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नको उहल्ले' त्ति विषयेषु - शब्दादिषु विगतव्यवच्छिन्नम् - अत्यन्तक्षीणं कौतूहलं यस्य स तथा । ९/१७४. 'माणुस्सगा कामभोग' त्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, 'उच्चारे' त्यादि, उच्चारादिभ्यः समुद्भवो येषां ते तथा 'अमणुन्नदुरूवमुत्तपूयपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पूतिकपुरीषेण च पूर्णाश्चेति विग्रहः, इह च दूरूपं विरूपं पूतिकं च-कुथितं, मयगंधुस्सास असुभनिस्सासउव्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धिः स चासावुच्छ्वासश्च मृतगन्धुच्छ्वासस्तेनाशुभनिःश्वासेन चोद्वेगजनका उद्वेगकारिणो जनस्य ये ते तथा उच्छ्वासश्च मुखादिना वायुग्रहणं निःश्वासस्तुतन्निर्गमः 'बीभच्छ' त्ति जुगुप्सोत्पादकाः 'लहुस्सग' त्ति लघुस्वकाः लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजण
'साहारणा'
कलमलस्य - शरीरसत्काशुभद्रव्यविशेषस्याधिवासेन - अवस्थानेन दुःखा - दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्म्मधारयः, 'परिकिलेस किच्छदुक्खसज्झा' परिक्लेशेन महामानसायासेन कृच्छ्रदुःखेन च गाढशरीरायासेन ये साध्यन्ते वशीक्रियन्ते ये ते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो विशेष्यते - फलरूपो विपाकः फलविपाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव्व' त्ति प्रदीसतृणपूलिकेव 'अमुच्चमाणे' इह प्रथमाबहुवचनलोपो दृश्यः ॥
९/१७५. 'इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए' इदं च तव पुत्र! आर्यः पितामहः प्रार्थकः - पितुः पितामहः पितृप्रार्यकः - पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यक- पितॄणां यः पर्ययः पर्यायः परिपाटि - रित्यर्थः तेनागतं यत्तत्तथा 'विपुलधणकणग' इह यावत्करणादिदं दृश्यं - 'रयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए' त्ति तत्र 'विपुलधणे' ति प्रचुरं गवादि 'कणग' त्ति धान्यं 'रयण' त्ति कर्केतनादीनि 'मणि' त्ति चन्द्रकान्ताद्याः मौक्तिकानि शङ्खाश्च प्रतीताः 'सिलप्पवाल' त्ति विद्रुमाणि 'रत्तरयण' त्ति पद्मरागास्तान्यादिर्यस्य तत्तथा 'संतसारसावएज्जे' त्ति 'संत' त्ति विद्यमानं स्वायत्त मित्यर्थः 'सार' त्ति प्रधानं 'सावएज्ज' ति
५३७
स्वापतेयं द्रव्यं, ततः कर्मधारयः किम्भूतं तत् ? इत्याह- 'अलाहि' त्ति अलं पर्याप्तं भवति 'याव' त्ति यत्परिमाणं 'आसत्तमाओ कुलवंसाओ' त्ति आसप्तमात् कुलवंश्यात्
Jain Education International
परिशिष्ट-५ : श. ९ : उ. ३३ : सू. १७३-१७७
कुललक्षणवंशे भवः कुलवंश्यस्तस्मात् सप्तमं पुरुषं यावदित्यर्थः 'पकामं दाउ' न्ति अत्यर्थं दीनादिभ्यो दातुम्, एवं भोक्तुं स्वयं भोगेन 'परिभाएउं' ति परिभाजयितुं दायादादीनां, प्रकामदानादिषु यावत् स्वापतेयमलं तावदस्तीति हृदयम् । ९/१७६. 'अग्गिसाहिए' इत्यादि, अग्न्यादेः साधारणमित्यर्थः
'दाइयसाहिए' त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह-'अग्गिसामन्ने' इत्यादि ।। ९/१७७. 'विसयाणुलोमाहिं' ति विषयाणां - शब्दादीनामनुलोमाःतेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'आघवणाहि यत्ति आख्यापनाभि:- सामान्यतो भणनैः 'पन्नवणाहि य' ति प्रज्ञापनाभिश्च विशेषकथनैः 'सन्नवणाहि य' त्ति सञ्ज्ञापनाभिश्च सम्बोधनाभिः 'विन्नवणाहि य' त्ति विज्ञापनाभिश्च विज्ञप्तिकाभिः सप्रणयप्रार्थनैः, चकाराः समुच्चयार्थाः, 'आघवित्तए व' त्ति आख्यातुम्, एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिं' ति विषयाणां प्रतिकूलाः- तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजमभउव्वेयणकरीहिं' ति संयमाद्भयं भीति उद्वेजनं च - चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सच्चे' ति सदभ्यो हितत्वात् 'अणुत्तरे' त्ति अविद्यमानप्रधानतरम्, अन्यदपि तथाविधं भविष्यतीत्याह- 'केवल' त्ति केवलंअद्वितीयं 'जहावस्सए' त्ति एवं चेदं तत्र सूत्रं - 'पडिपुन्ने' अपवर्गप्रापकगुणैर्भृतं ‘नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिकं वा न्यायानपेतत्वात् 'संसुद्धे' सामस्त्येन शुद्धं 'सल्लगत्तणे' मायादिशल्यकर्त्तनं 'सिद्धिमग्गे' हितात् प्राप्त्युपायः मुत्तिमग्गे अहितविच्युतेरुपायः 'निज्जाणमग्गे' सिद्धिक्षेत्रगमनोपायः 'निव्वाणमग्गे' सकलकर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रकारम् 'अविसंधि' प्रवाहेणाव्यवच्छिन्नं 'सव्वदुक्खपहीणमग्गे' सकलाशर्मक्षयोपायः एत्थं ठिया जीवा सिज्झति वुज्झति मुच्चंति परिनिव्वायंति' त्ति 'अहीवेगंतदिट्ठीए' अहेरिव एकोऽन्तो- निश्चयो यस्याः सा (एकान्ता सा ) दृष्टि:बुद्धिर्यस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम्, अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ताएकनिश्चया दृष्टिः दृग् यस्य स एकान्तदृष्टिकः 'खुरो इव एगंतधाराए' त्ति एकान्ता - उत्सर्गलक्षणैकविभागाश्रया धारेव धारा - क्रिया यत्र तत्तथा, 'लोहमये' त्यादि, लोहमया वा व चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, बालुये' त्यादि, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, गंगे' त्यादि, गङ्गा वा गङ्गेव महानदी प्रतिस्रोतसा गमनं प्रतिस्रोतोगमनं तद्भावस्तत्ता तया, प्रतिस्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमिति भावः, एवं समुद्रोपमं प्रवचनमपि, तिक्ख कमियव्वं' ति यदेतत् प्रवचनं तत्तीक्ष्णं खङ्गादिक्रमितव्यं यथा खङ्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमितिभावः
For Private & Personal Use Only
www.jainelibrary.org