________________
भगवती वृत्ति
त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः ?, नैवं प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितचानाकारोपयोगेऽपि लब्धिलाभस्य
परिणामापेक्षया
सम्भवादिति ।
५२७
९ / ३८. 'वइरोसभनारायसंघयणे होज्ज' त्ति प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, एवमुत्तरत्रापीति ॥
९ / ४२. 'सवेयए होज्ज' त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्तीत्यसौ सवेद एव 'नो इत्थिवेयए होज्ज' त्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत एवाभावात् । ९ / ४३. 'पुरिसनपुंसगवेयए' त्ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः 'सकसाई होज्ज' त्ति विभङ्गावधिकाले कषायक्षयस्याभावात् 'चउसु संजलणकोहमाणमायालोभेसु होज्ज' त्ति स ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणं प्रतिपन्नः उक्तः, तस्य च तत्काले चरणयुक्तत्वात्सञ्ज्वलना एव क्रोधादयो
भवन्तीति ।
९ / ४५. 'पत्थ' त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं प्रशस्तान्यध्वसायस्थानानीति । ९/४६. 'अणतेहिं' ति अनन्तैः अनन्तानागतकालभाविभिः । 'विसंजोएइ' त्ति विसंयोजयति तत्प्राप्तियोग्यताया अपनोदादिति । 'जाओऽविय' त्ति यापि च 'नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ' त्ति एतदभि धानाः 'उत्तरपयडीओ' त्ति. नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः 'तासिं च णं' ति तासां च नैरयिकगत्याद्युत्तरप्रकृतीनां चशब्दादन्यासां च 'उवरगहिए' त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान् अनन्तानुबंधिनः क्रोधमानमायालोभान् क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, पंचविहं नाणावरणिज्जं' ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिज्जं' ति चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य च मीलनान्नवधित्वमस्य 'पंचविहं अंतराइयं' ति दानलाभभोगोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य तत्र क्षपयतीति सम्बन्धः, किं कृत्वा ? इत्यत आह- 'तालमत्थकडं चणं मोहणिज्जं कट्टु' त्ति मस्तकं - मस्तकशूची कृत्तं छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः, छान्दसत्वाच्चैवं निर्देशः, तालमस्तककृत्त यत्तत्तालमस्तककृत्तम्, अयमर्थः - छिन्नमस्तकतालकल्पं मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावे तत्र क्षपिते सति ज्ञानावरणीयादि क्षपयत्येव ? इति, अत आह— 'तालमत्थे' त्यादि, तालमस्तकस्येव कृत्त्वंक्रिया यस्य तत्तालमस्तककृत्त्वं तदेवंविधं च मोहनीयं ' 'कट्टु' त्ति इतिशब्दस्येह गम्यमानत्वादितिकृत्वा - इतिहेतोस्तत्र क्षपिते
च
Jain Education International
इव
ज्ञानावरणीयादि क्षपयत्येवेति, क्रियासाधर्म्यमेव, यथा हि वश्यम्भावितालविनाशा एवं मोहनीय कर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्म्मविनाशेति, आह च
'मस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः । तद्वत्कर्मविनाशोऽपि मोहनीयक्षये नित्यम् ॥ १॥'
ततश्च कर्मरजोविकरणकरं-तद्विक्षेपकम् अपूर्वकरणम्-असदृशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तं विषयानन्त्यात् अनुत्तरं सर्वोत्तमत्वात् निर्व्याघातं कटकुट्यादिभिरप्रतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्तयोत्पन्नत्वात् केवलवरज्ञानदर्शनंकेवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः, इह च
क्षपणाक्रमः
परिशिष्ट - ५ : श. ९ : उ. ३१ : सू. ३६-५०
तालमस्तकमोहनीययोश्च तालमस्तकविनाशक्रियाऽ
अणमिच्छमीससम्मं अट्ठ नपुंसित्थिवेयछक्कं च । पुमवेयं च खवेई कोहाईए य संजलणे ॥ १ ॥' (अनन्तानुबन्धिनो मिश्रं सम्यक्त्वं अष्टकं नपुंसकं स्त्रीवेदं षट्कं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् ॥ १ ॥ ) इत्यादिग्रन्थान्तरप्रसिद्धो, न चायमिहाश्रितो यथा कथञ्चित्क्षपणामात्रस्यैव विवक्षितत्वादिति ।
९/४७. 'आघवेज्ज' त्ति आग्राहयेच्छिष्यान् अर्घापयेद्वा-प्रतिपादनतः पूजां प्रापयेत् 'पन्नवेज्ज' त्ति प्रज्ञापयेद्भेदभणनतो बोधयेद्वा 'परूवेज्ज' त्ति उपपत्तिकथनतः 'नन्नत्थ एगनाएण व' त्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेण व' त्ति एकव्याकरणादेकोत्तरादित्यर्थः ।
'पव्वावेज्ज व' त्ति प्रव्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज्ज व' त्ति मुण्डयेच्छिरोलुञ्चनतः 'उवएसं पुण करेज्ज' त्ति अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात् । ९/५०. ' सहावई' त्यादि, शब्दापातिप्रभृतयो यथाक्रमं जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैरण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, 'साहरणं पडुच्च' त्ति देवेन नयनं प्रतीत्य 'सोमणसवणे' त्ति सौमनसवनं मेरौ तृतीयं 'पंडगवणे' त्ति मेरौ चतुर्थं 'गड्डाए व' त्ति गर्ने निम्ने भूभागेऽधोलोकग्रामादौ 'दरिए व' त्ति तत्रैव निम्नतरप्रदेशे 'पायाले व' त्ति महापातालकलशे वलयामुखादौ 'भवणे व' ति भवनवासिदेवनिवासे 'पन्नरससु कम्मभूमीसु' त्ति पञ्चः भरतानि पञ्च ऐरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणि - कृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूयस्ता 'अड्डाइज्जे' त्यादि अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्ते च ते द्वीपाश्चेति समासः, अर्द्धतृतीयद्वीपाश्च समुद्रौ च
९/४८
For Private & Personal Use Only
www.jainelibrary.org