________________
भगवती वृत्ति
५२५
तृतीय- त्रिंशत्तम उद्देशकः
द्वितीयोदेशके द्वीपवरवक्तव्यतोक्ता, तृतीयेऽपि प्रकारान्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्९/७ 'रायगिहे' इत्यादि, 'दाहिणिल्लाणं' ति उत्तरान्तरद्वीपव्यवच्छेदार्थम् एवं जहा जीवाभिगमे' त्ति, तत्र चेदमेवं सूत्र - 'चुल्लहिमवंतस्स बासहरपव्वयस्स उत्तरपुरच्छि मिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयनामं दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविक्खंभेणं नवगुणपने जोयणसए किंचिसेसूणे परिक्खेवेणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते' इत्यादि, इह च वेदिकावनखण्डकल्पवृक्ष'मनुष्यमनुष्यीवर्णकोऽभिधीयते तथा तन्मनुष्याणां चतुर्थभक्तादाहारार्थ उत्पद्यते, ते च पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहाः, तत्र च गेाद्यभावः तन्मनुष्याणां च स्थितिः पल्योपमासङ्ख्येयभागप्रमाणा, षण्मासावशेषायुषश्च ते मिथुनकानि प्रसुवते, एकाशीतिं च दिनानि तेऽपत्यमिथुनकानि पालयन्ति, उच्छ्वसितादिना च ते मृत्वा देवेषूद्यन्ते इत्यादयश्चार्था अभिधीयन्ते इति, वाचनान्तरे त्विदं दृश्यते एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए णेयव्वो, नाणत्तं अट्ठधणुसया उस्सेहो चउसट्ठी पिट्टकरंडया अणुसज्जणा नत्थि' त्ति, तत्रायमर्थः - उत्तरकुरुषु मनष्याणां त्रीणि गव्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते इह तु चतुःषष्टिरिति, तथा - 'उत्तरकुराए णं भंते! कुराए कइविहा मणुस्सा अणुसज्जति ?, गोयमा छव्विहा मणुस्सा अणुसज्जति, तं जहा - पम्हगंधा मियगंधा अममा तेयली सहा सणिचारी' इत्येवं मनुष्याणामनुषञ्जना तत्रोक्ता इह तु सा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं चेह त्रीणि नानात्वस्थानान्युक्तानि सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भावनीयानीति, अयं चेंहैकोरुकद्वीपोद्देशकस्तृतीयः । अथ प्रकृतवाचनामनुसृत्योच्यते - किमन्तमिदं जीवाभिगमसूत्रमिह वाच्यम ? इत्याह'जावे' त्यादि 'यावत् शुद्धदन्तद्वीपः शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत्, साऽपि कियद्दूरं यावद्वाच्या ? इत्याह- 'देवलोकपरिग्गहे' त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः, इह चैकैकस्मिन्नन्तरद्वीपे एकैक उद्देशकः, तत्र चैकोरुकद्वीपो
१. अतः अग्रे निर्देक्ष्यमाणात् 'जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए ' इत्यतिदेशाच्यानुमीयते एतद्यदुत केषुचित्तदानींतनेषु जीवाभिगमादर्शेषु अभूत् एकोरुकवक्तव्यातासूत्रे कल्पवृक्षादिवर्णनं केषुचिच्चोत्तर
Jain Education International
परिशिष्ट - ५ : श. ९ : उ. ३-३० : सू. ७ देशकानन्तरमाभासितद्वीपोद्देशकः, तत्र चैवं सूत्र - कहि णं भंते! दाहिणिल्लाणं आभासियमणूसाणं आभासिए नामं दीवे पन्नत्ते ?, गोयमा ! जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुद्द तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियनामं दीवे पन्नते' शेषमेकोरुकद्वीपवदिति चतुर्थः । एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराच्चरमान्तादिति पञ्चमः ५। एवं लाङ्गूलिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराच्चरमान्तादिति षष्ठः ६ । एवं ह्यकर्णद्वीपोदेशको नवरमेकोरुकस्योत्तरपौरस्त्याच्चरमान्ताल्लवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हृयकर्णद्वीपो भवतीति सप्तमः ७। एवं गजकर्णद्वीपोद्देशकोऽपि, नवरं गजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याच्चरमान्ताल्लवणसमुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८। एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्तादिति नवमः ९ । एवं शष्कुलीकर्णद्वीपोद्देशकोऽपि, नवरमसौ लाङ्गूलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १०। एवमादर्शमुखद्वीपमेण्द्रमुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णां क्रमेण
पञ्च
पूर्वोत्तरपूर्वदक्षिणदक्षिणापरापरोत्तरेभ्यश्चरमान्तेभ्यः योजनशतानि लवणोदधिमवगाह्य पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ एतेषा मेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षड् योजनशतानि लवणसमुद्रमवगाह्य षड्योजनशतायामविष्कम्भाः क्रमेणाश्वमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपव्याघ्रमुखद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८ । एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रमवगाह्य समयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीप कर्णप्रावरणद्वीपाः प्रावरणद्वीपा भवन्ति, तत्प्रतिपादकाश्चापरे चत्वार एवोद्देशका इति २२ । एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा उल्कामुखद्वीपमेघमुखद्वीपविद्युन्मुखद्वीपविद्युतद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति २६ । एतेषामेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायामविष्कम्भाः घनदन्तद्वीपलष्टदन्तद्वीपगूढदन्तद्वीप शुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोदेशका इति, एवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोद्देशकः ॥
इति तृतीय- त्रिंशत्तम उद्देश्यः समाप्त ।
कुरुवक्तव्यतायां, तथा च जीवाभिगमसूत्रे एकोरुकवक्तव्यतायां कल्पवृक्षादिवर्णनेऽपि वृत्तौ प्रतीकधृतिपूर्वमुत्तरकुरुवक्तव्यातायां व्याख्यानं कल्पवृक्षादेस्तादृशादर्शदर्शनमूलमेव ।
For Private & Personal Use Only
www.jainelibrary.org