SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ५२३ अथ नवमं शतकम् प्रथम उद्देशकः व्याख्यातमष्टमशतमथ नवममारभ्यते, अस्य चायमभिसम्बन्धः - अष्टमशते विविधाः पदार्था उक्ताः, नवमेऽपि त एव भङ्गयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्थसंसूचिकेयं गाथा 'जंबुद्दीवे' इत्यादि, तत्र 'जंबुद्दीवे' नि तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोदेशकः १, 'जोइस' त्ति ज्योतिष्कविषयों द्वितीयः २ 'अंतरदीव त्ति अन्तरद्वीपविषया अष्टाविंशतिरुदेशकाः ३०, 'असोच्च' त्ति अश्रुत्वा धर्मे लभेतेत्याद्यर्थपतिपादनार्थ एकत्रिंशत्तमः ३१, 'गंगेय' ति गाङ्गेयाभिधा नागारवक्तव्यतार्थो द्वात्रिंशत्तमः ३२, 'कुंडग्गामे' त्ति ब्राह्मणकुण्डग्रामविषयस्त्रयस्त्रिंशत्तमः ३३, 'पुरिसे' त्ति पुरुषः पुरुषं घ्नन्नित्यादिवक्तव्यतार्थश्चतुस्त्रिंशत्तम ३४ इति || ९/१. 'कहिं णं भंते' इत्यादि कस्मिन् देशे इत्यर्थः एवं जंबुद्दीवपन्नत्ती भाणियव्व' त्ति, सा चेयम्- 'केमहालए णं भते ! जंबूद्दीवे दीवे किमागारभाव पडोयारे णं भंते! जंबुद्दीवे दीवे पन्नत्ते ?' कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा ! अयन्नं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतरए सव्वखुड्डाए वट्टे तिल्लपूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणसठिए पन्नत्ते एवं जोयणसयसहस्सं आयामविक्खंभेण 'मित्यादि, किमन्तेयं व्याख्या? इत्याह-'जावे'त्यादि, 'एवामेव' त्ति उक्तेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुव्वावरेण' ति सह पूर्वेण नदीवृन्देनापरं सपूर्वापरं तेन 'चोइस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवन्तीति वा मक्खाय' ति इह सलिलाशतसहस्राणि नदीलक्षाणि एतत्सङ्ख्या चैवं भरतेरावतयोर्गङ्गासिन्धुरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या सहस्रैर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोर्हरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकं षट्पञ्चाशता सहस्रैर्युक्ताः समुद्रमुपयान्ति महाविदेहेशीताशीतोदे प्रत्येकं पञ्चभिर्लक्षैर्द्वात्रिंशता सहस्रैर्युक्ते समुद्रमुपयात इति, सर्वासां च मीलने सूत्रोक्तं तथा च १. सप्तैव कोटीशतानि नवतिः कोट्यः षट्पञ्चाशल्लक्षाश्चतुर्नवतिः सहस्राणि साधिकं सार्धं शतं च ॥ १ ॥ गव्यूतमेकं पञ्चदशाधिकानि Jain Education International परिशिष्ट - ५ : श. ८ : उ. १ : सू. १ प्रमाणं भवति, वाचनान्तरे पुनरिदं दृश्यते--'जहा जंबूद्दीवपन्नत्तीए तहा णेयब्वं जोइसविहूणं जावखंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ । विजयद्दहसलिलाउ स पिंडए होति संगहणी ॥ १ ॥ ' ति, तत्र 'जोइसविहूणं' ति जंबूद्वीपप्रज्ञप्त्यां ज्योतिष्कवक्तव्यताऽस्ति तद्विहीनं समस्तं जंबूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रं ज्ञेयं, किंपर्यवसानं पुनस्तद् ? इत्याह-- ' जाव खंडे' त्यादि, तत्र 'खंडे' त्ति जम्बूद्वीपो भरनक्षेत्रप्रमाणानि खण्डानि यन्ति स्यात् ?, उच्यते नवत्यधिकं खण्डशतं, 'जोयण' ति जम्बूद्वीप: कियन्ति योजनप्रमाणानि खण्डानि स्यात् ?, उच्यते, - 'सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साई । चरणउई च सहस्सा सयं दिवङ्कं च साहीयं ॥ १ ॥ गाउयमेगं पन्नरस धणुस्सया तह धणूणि पन्नरस । सचि अंगुलाई जंबुद्दीवस्स गणियपयं ॥ २ ॥ इति, गणितपदमित्येवंप्रकारस्य गणितस्य सञ्ज्ञा 'वास' त्ति जम्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, 'पव्वय' त्ति जम्बूद्वीपे कियन्तः पर्वता ?, उच्यन्ते, षड् वर्षधरपर्वता हिमवदादयः एको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौ च देवकुरुषु, द्वौ यमकपर्वतौ, एतौ चोत्तरकुरुषु, द्वे शते काञ्चनकानाम्, एते च शीताशीतोदयोः पार्श्वतो, विंशतिः वक्षस्काराः, चतुस्त्रिंशद्दीर्घविजयार्द्धपर्वताश्चत्वारो वर्तुलविजयार्द्धाः एवं द्वे शते एकोनसप्तत्यधिके पर्वतानां भवतः, 'कूड' त्ति कियन्ति पर्वतकूटानि ?, उच्यते, षट्पञ्चाश धरकूटानि षण्णवतिर्वक्षस्कारकूटानि त्रीणि षडुत्तराणि विजयार्द्धकूटानां शतानि नव च मन्दरकूटानि एवं चत्वारि सप्तषष्ट्यधिकानि कूटशतानि भवन्ति । 'तित्थ' नि जम्बूद्वीपे कियन्ति तीर्थानि ?, उच्यते, भरतादिषु चतुस्त्रिंशति खण्डेषु मागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं द्वयुत्तरं तीर्थशतं भवतीति, 'सेढीओ' त्ति विद्याधरश्रेणयः आभियोगिक श्रेणयश्च कियन्त्यः ?, उच्यते, अष्टषष्टिः प्रत्येकमासां भवन्ति, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावात्, एवं च षटत्रिंशदधिकं श्रेणिशतं भवतीति, 'विजय' त्ति कियन्ति चक्रवर्त्तिविजेतव्यानि भूखण्डानि ? उच्यते चतुस्त्रिंशत्, एतावन्त एवं राजधान्यादयोऽर्था इति, 'दह' त्ति कियन्तो महाहदाः ? उच्यते, पद्मादयः षड् दश च नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्त्तिन इत्येवं षोडश, 'सलिल' त्ति नद्यस्तत्प्रमाणं च दर्शितमेव, 'पिंडए होति संग्रहणि' ति उद्देशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति ॥ पञ्चदश गणितपदम् ॥ २ ॥ शतानि नवमशते प्रथमः ॥१-१॥ For Private & Personal Use Only धनूंषि षष्टिश्चाङ्गुलानां जम्बूद्वीपस्यैतद् www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy