________________
परिशिष्ट - ५ : श. ८ : उ ८ : सू. ३२३-३३१
विविक्ततरोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधान्नैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भवस्ततैश्चैकोनविंशतेरेव परीषहाणामुत्कर्षेणैकदा वेदनं प्राप्तमिति नैवं यतो ग्रामादिगमनप्रवृत्तौ यदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणाम एवं विश्रामभोजनाद्यर्थमित्वरशय्यायां वर्त्तते तदोभयमप्यविरुद्धमेव तत्त्वतश्चर्याया असमाप्तत्वाद् आश्रयस्य चाश्रयणादिति यद्येवं तर्हि कथं षड्विधबन्धक - माश्रित्य वक्ष्यति - 'जं समयं चरियापरीसहं वेएति नो तं समयं सेज्जापरीसह वेएड' इत्यादीति ?, अत्रोच्यते, षड्विधबन्धको मोहनीयस्याविद्यमानकल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्या काले शय्यायामेव वर्त्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाच्चर्यायामपि, अतस्तदपेक्षया तयोः परस्परविरोधाद्युगपदसंभव:, ततश्च साध्वेव 'जं समयं 'चरिए' त्यादीति । ८ / ३२५. 'छव्विहबंधे त्यादि षड्विधबन्ध कस्यायुर्मोहवजनां बन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह - 'सरागछउ - मत्थस्से' त्यादि, सूक्ष्मलोभाणूनां वेदनात्सरागोऽनुत्पन्न - केवलत्वाच्छास्थस्ततः कर्म्मधारयोऽतस्तस्य 'चोदस परीसह त्ति अष्टानां मोहनीयसम्भवानां तस्य मोहाभावेनाभावाद्वाविंशतेः शेषाश्चतुर्द्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानामसंभव इत्युक्तं. ततश्च सामर्थ्यादनिवृत्तिबादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः । कथं चैतद् युज्यते ?, यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहा - भावात्सप्तानामेव सम्भवो नाष्टानां अथ दर्शनमोहनीय- सत्तापेक्षयाऽसावपीष्यत इत्यष्टावेव तर्हि उपशमकत्वे सूक्ष्मसम्परायस्यापि मोहनीयसत्तासद्भावात्कथं तदुत्थाः सर्वेऽपि परीषहा न भवन्ति? इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसक वेदाद्युपश मकालेऽनिवृत्तिबादरसम्परायो भवति, स चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य बृहति भागे उ५९. " शेषे चानुपशान्ते एव स्यात्, नपुंसकवेदं चासौ तेन सहोपशमयितुमुपक्रमते, ततश्च नपुंसक वेदोपशमावसरेऽनिवृत्तिबादरसम्परायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्तैव ततस्तत्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति, ततश्चाष्टावपि भवन्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहसम्भवः, आह च
१. अत एव ऋजुसूत्रादीनां संयतानामेव परीषहा इति कथने अविरत - देशविरतानां परीषहा इति पक्षरूपाभ्यां नैगमव्यवहाराभ्यां विशिष्टता, क्रमेणोपयोगे सहजसमाधानमिदं, तथापि विंशतिपरीषहयौगपद्यप्रति
Jain Education International
५०८
भगवती वृत्ति
'मोहनिमित्ता अट्ठवि बायररागे परीसहा किह णु ? | किह वा सुहुमसरागे न होंति उवसामए सव्वे १ ॥ १ ॥ आचार्य आह
सत्तगपरओ च्चिय जेण बायरो जं च सावसेसंमि । मग्गिल्लंमि पुरिल्ले लग्गइ तो दंसणस्सावि ॥ २ ॥ लब्भइ पएसकम्मं पडुच्च सुहुमोदओ तओ अट्ठ । तस्स भणिया न सुहुमे न तस्स सुहुमोदओऽवि जओ ॥ ३ ॥' (बादरसम्पराये मोहनिमित्ता अष्टौ परीषहाः कथं ? कथं वा सूक्ष्मसम्पराये औपशमिके च सर्वे न भवन्ति ? ॥ १ ॥ दर्शन सप्तकपरत एव बादरो येन यस्माच्च सावशेषे पाश्चात्येऽग्रे लगति ततो दर्शनस्यापि || २ || लभ्यते प्रदेशकर्म प्रतीत्य सूक्ष्मोदयस्ततोऽष्टौ तस्य भणिताः, न सूक्ष्मे, न तस्य सूक्ष्मोदयोऽपि यतः ॥ ३ ॥ ) यच्च सूक्ष्मसम्परायस्य सूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुलोभहेतुकस्य परीषहस्यानभिधानात्, यदि च कोऽपि कथञ्चिदसौ स्यात्तदा तस्येहात्यन्ताल्पत्वेनाविवक्षेति ।
८/३२६. ' एगविहबंधगस्स' त्ति वेदनीयबन्धकस्येत्यर्थः कस्य तस्य ? इत्यत आह-'वीयराग छउमत्थस्स' त्ति उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः 'एवं चेवे' त्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति ॥
अनन्तरं परीषहा उक्तास्तेषु चोष्णपरीषहस्तद्धेतवश्च सूर्या इत्यतः सूर्यवक्तव्यतायां निरूपयन्नाह८/३२९-३३१. 'जंबुद्दीवे' इत्यादि, 'दूरे य मूले य दीसंति' नि 'दूरे
च' द्रष्टृस्थानापेक्षया व्यवहिते देशे 'मूले च' आसन्ने द्रष्टृप्रतीत्य-पेक्षया सूर्यौ दृश्येते द्रष्टा हि स्वरूपतो बहुभिर्योजन सहस्रैर्व्यवहितमुद्गमास्तमययोः सूर्यं पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं तु विप्रकर्षं सन्तमपि न प्रतिपद्यत इति । 'मज्झतिय मुहुत्तंसि मूले य दूरे य दीसंति' ति मध्यो- मध्यमो ऽन्तो- विभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्तश्चेति मध्यान्तिकमुहूर्त्तस्तत्र 'मूले च' आसन्ने देशे द्रष्टृस्थानापेक्षया 'दूरे च' व्यवहिते देशे द्रष्टृप्रतीत्यपेक्षया सूर्यौ दृश्येते द्रष्टा हि मध्याह्ने उदयास्तमनदर्शनापेक्षयाऽऽसन्नं रविं पश्यति योजनशताष्टकेनैव तदा तस्य व्यवहितत्त्वात् मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति । सव्वत्थ समा उच्चत्तेणं' ति समभूतलापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा । 'लेसापडिघाएणं' तेजसः प्रतिघातेन दूरतरत्वात् तद्देशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरूपेण सूर्य आसन्नप्रतीतिं पादकसूत्रविरोधात् न तत्कल्पना, भवतु वान्येषां परस्पराविरुद्वानां समुदित उपयोगो नानयोर्द्वयोः परस्परं विरुद्धयोः वेदनाद्वयस्य यौगपद्याभावात् ।
For Private & Personal Use Only
www.jainelibrary.org