________________
भगवती वृत्ति
५०५
अथवा निश्रितं रागः उपाश्रितं च द्वेषस्ते, अथवा निश्रितं च आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन यथावदित्यर्थः इह पूज्यव्याख्या
"रागो य होइ निस्सा उवस्सिओ दोससंजुत्तो ॥ अहवण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कुलादीया ॥ १ ॥ ' इति (रागश्च भवति निश्रा उपाश्रितो भवति दोष संयुक्तः ॥ अथवाऽऽहारादि मह्यं दास्यत्येवेति तु निश्रा । शिष्यः प्रतीच्छको वा भवत्युपश्रा कुलादिका ॥ | १ || ) आज्ञायाजिनोपदेशस्याराधको भवतीति हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु से किमाहु भंते!' इत्याद्येवं व्याख्यान्तिअथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निर्ग्रन्थाः ! पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह- 'इच्चेय' मित्यादि ॥
आज्ञाराधकश्च कर्म्म क्षपयति शुभं वा तद् बध्नातीति बन्धं निरूपयन्नाह
८/३०२. 'कई' त्यादि, 'बंधे' त्ति द्रव्यतो निगडादिबन्धो भावतः कर्मबन्धः, इह च प्रक्रमात कर्मबन्धोऽधिकृतः 'ईरियावहियाबंधे यत्ति ईर्या - गमनं तत्प्रधानः पन्था मार्ग ईयपथस्तन भवमैर्यापथिकं - केवलयोगप्रत्ययं कर्म तस्य यो बन्धः स तथा, स चैकस्य वेदनीयस्य, संपराइयबंधे य' नि संपरैति संसारं पर्यटति एभिरिति सम्परायाः कषायास्तेषु भवं साम्परायिकं कर्म तस्य यो बन्धः स साम्परायिकबन्धः कषायप्रत्यय इत्यर्थः स चावीतरागगुणस्थानकेषु सर्वेष्वति ।
८/३०३. 'नो नेरइओ' इत्यादि, मनुष्यस्यैव तद्वन्धो, यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्बन्धनमिति, पुव्वपडिवन्नए इत्यादि, पूर्वं प्राक्काले प्रतिपन्नमैर्यापथिकबंधकत्वं यैस्ते पूर्वप्रतिपन्नकास्तान्, तद्बन्धकत्वद्वितीयादिसमयवर्त्तिन इत्यर्थः, ते च सदैव बहवः पुरुषाः स्त्रियश्च सन्ति उभयेषां केवलिनां सदैव भावादत उक्तं मणुस्सा य मणुस्सीओ य बंधंति' त्ति, 'पडिवज्जमाणए' नि प्रतिपद्यमानकान् ऐर्यापथिककर्म्मबन्धनप्रथमसमयवर्त्तिन इत्यर्थः एषां च विरहसम्भवाद् एकदा मनुष्यस्य स्त्रियाश्चैकैकयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः, द्विक्संयोगे तथैव चत्वारः एवमेते सर्वेऽप्यष्टी, स्थापना चेयमेषाम् पु १ स्त्री १ पुं ३ स्त्री ३ | पं स्त्री एतदेवाह मणुस्से वा' इत्यादि, एषां च पुंस्त्वादि तत्तल्लिङ्गापेक्षया न तु वेदापेक्षया, क्षीणोपशान्तवेदत्वात् ।
अथ वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह-
८/३०४. 'तं भंते! कि' मित्यादि, 'नो इत्थी' इत्यादि च पदत्रयनिषेधेनावेदकः प्रश्नितः उत्तरे तु षण्णां पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र चं
पूर्वप्रतिपन्नाः
Jain Education International
परिशिष्ट-५ : श. ८ : उ. ८ : सू. ३०१-३०६ प्रतिपद्यमान काश्च भवन्ति, तत्र पूर्वप्रतिपन्नकानां विगतवेदानां सदा बहुत्वभावात् आह- 'पुव्वपडिवन्ने' त्यादि, प्रतिपद्यमानकानां तु सामायिकत्वाद् विरहभावेनैकादि-सम्भवाद्विककल्पद्रयमत एवाह - 'पडिवज्जमाणे' त्यादि । अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया
विकल्पयन्नाह
८/३०५. 'जई' त्यादि, 'तं भंते!' तदा भदन्त ! तद्वा कर्म 'इत्थीपच्छाकडे' त्ति भावप्रधानत्वान्निर्देशस्य स्त्रीत्वं पश्चात्कृतं - भूततां नीतं येनावेदकेनासौ स्त्रीपश्चात्कृतः, एवमन्यान्यपि. इककयोगे एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्टौ एते च सर्वे षडविंशतिः इयं चैषां स्थापना- स्त्री १ पु. १ न. १ स्त्री ३ पु. ३ न. ३ | सूत्रे च चतुर्भङ्गयष्टभङ्गीनां प्रथमविकल्पा दर्शिताः सर्वान्तिमश्चेति । अथैर्यापथिककर्मबन्धनमेव कालत्रयेण विकल्पयन्नाह८/३०६. 'तं भंते!' इत्यादि, 'तद्' ऐर्यापथिकं कर्म 'बंधी' ति बद्धवान् बध्नाति भन्त्स्यति चेत्येको विकल्पः एवमन्येऽपि सप्त, एषां च स्थापना । || प्रस्तार
स्थापना SSG
स्त्री पं स्त्री न
१
?
पं १ १
? ३
3
For Private & Personal Use Only
स्त्री पं १
7 न
न
१
551
GIG ISI
उत्तरं तु भवे त्यादि भवे अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्ष:- ऐर्यापथिककर्माणग्रहणं भवाकर्षस्तं प्रतीत्य 'अस्त्यैकः भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहिपूर्वभवे उपशांतमोहत्वे सत्यैर्यापथिकं कर्म्म बद्धवान वर्त्तमानभवे चोपशान्तमोहत्वे बध्नाति, अनागते चोपशान्तमोहावस्थायां भन्त्स्यतीति १, द्वितीयस्तु यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्त्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्व बन्द्रवान् वर्त्तमाने च बध्नाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति २, तृतीयः पूर्वजन्मनि उपशांतमोहत्वे बद्धवान् तत्प्रतिपतितो न बध्नाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भन्त्स्यतीति ३, चतुर्थस्तु शैलेषीपूर्वकाले बन्द्रवान् शैलेश्यां च न बध्नाति न च पुनर्भन्त्स्यतीति ४, पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवानिति न बद्धवान् अधुना लब्धमिति बध्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्वं बद्धवान् अधुना तु क्षीणमोहत्वं लब्धमिति बध्नाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति षष्ठः ६, सप्तमः पुनर्भव्यस्य स धनादी काले न बद्धवान् अधुनाऽपि कश्चिन्न बध्नाति कालान्तरे तु भन्त्स्यतीति ७ अष्टमस्त्वभव्यस्य ८ स च प्रतीत एव ।
www.jainelibrary.org