SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४९३ परिशिष्ट-५ : श. ८ : उ. २ : सू. १८५-१८७ उच्यन्ते अतस्तदपेक्षया सर्वभावान् जानातीत्युक्तम्, अनभिलाप्यभावापेक्षया तु 'सुए चरित्ते न पज्जवा सव्वे' इत्युक्तमिति न विरोधः।। ८/१८६. दव्वओ ण' मित्यादि, अवधिज्ञानी रूपिद्रव्याणि पुद्गल द्रव्याणीत्यर्थः, तानि च जघन्येनानन्तानि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि। यत उक्तं-'तेयाभासादव्वाण अंतरा एत्थ लभति पट्ठवओ' ति, (अत्र प्रस्थापकस्तेजोभाषावर्गणयोरन्तरालद्रव्याणि जानाति) उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य, पश्यति सामान्याकारणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात् । नन्वादौ दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थमनं परित्यज्य प्रथमं जानातीत्युक्तम् ?, अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तम्। अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वेना-प्रधानत्वात् पश्चात्पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते। इत्येतस्यार्थस्य ज्ञापनार्थं साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति। 'जहा नंदीए' ति एवं च तत्रेदं सूत्रं-'खेत्तओ णं ओहिणाणी जहन्नेणं अंगुलस्स असंखेज्जइ-भागं जाणइ पासइ' इत्यादि, व्याख्या पुनरेवं क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गलस्यासङ्ख्येयभागमुत्कृष्टतोऽसङ्ख्येयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकाया असलयेयं भागमुत्कृष्ट-तोऽसङ्ख्येया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च जानाति पश्यति, तद्गतरूपिद्रव्यावगमात्, अथ कियडूरं यावदिह नन्दीसूत्र वाच्यम् ? इत्याह-'जाव भावओ' त्ति भावाधिकार यावदित्यर्थः, स चैवं-भावतोऽवधिज्ञानी जघन्येनानन्तान् भावानाधारद्रव्यानन्तत्वाज्जानाति पश्यति, न तु प्रतिद्रव्यमिति। उत्कृष्टतोऽप्यनन्तान् भावान् जानाति पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति। ८/१८७. 'उज्जुमई' ति मननं मतिः संवेदनमित्यर्थः ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्वसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमति-स्तद्वानेव गृह्यते, 'अणंते' त्ति अनन्तान अपरिमितान् 'अणंतपएसिए' त्ति अनन्तपरमाण्वात्मकान् 'जहा नंदीए' त्ति, तत्र चेदं सूत्रमेवं-खंधे जाणइ पासइ, त्ति तत्र 'स्कन्धान्' विशिष्टैकपरिणामपरिणतान्, सन्जिभिः पर्याप्तकैः प्राणिभिरर्द्धतृतीयद्वीपसमुद्रान्तवर्तिभिर्मनस्त्वेन परिणामितानित्यर्थः, 'जाणइ' त्ति मनःपर्यायज्ञानावरणक्षयोपशमस्य पीत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात् जानातीत्युच्यते, तदालोचितं पुनरर्थं घटादिलक्षणं मनःपर्यायज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽ-नुपपत्त्याऽतः पश्यतीत्युच्यते। उक्तञ्च भाष्यकारेण--'जाणइ बज्झेऽणुमाणाओ' ति, (बाह्याननु मानाज्जानाति) इत्थं चैतदङ्गीकर्त्तव्यं, यतो मूर्त्तद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्तमपि धर्मास्तिकायादिकं मन्येरन, न च तदनेन साक्षात् कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्ना-लम्बनमेवेदमवसेयं, तत्र च दर्शनसम्भवात्पश्यतीत्यपि न दृष्टम्। एकप्रमात्रपेक्षया तदनन्तरभावित्वाच्चोपन्यस्तमित्यलमतिविस्तरेण, 'ते चेव उ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासइ' तानेव स्कन्धान् विपुलाविशेषग्राहिणी मतिर्विपुलमतिःघटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्यासौ विपुलमतिस्तद्वानेव, 'अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थतया वर्णादिभिश्च वितिमिरतरा इव-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिरतरका अतस्तान्, अत एव 'विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च, तथा 'खेत्तओ णं उज्जुमई अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्ले खुड्डागपयरे उढे जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेते अढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणइ पासइ' तत्र क्षेत्रत ऋजुमतिरधः-अधस्ताद् यावदमुष्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकातरान् तावत्, किं?-मनोगतान भावान् जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिर्यग्लोकमध्यादधो यावन्नव योजनशतानि तावदमुष्या रत्नप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया, तेभ्योऽपि येऽधस्तादधोलोकग्रामान यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्ध्वं यावज्ज्योतिषश्च-ज्योतिश्चक्रस्योपरितलं। 'तिरियं जाव अंतोमणुस्सखेत्ते' त्ति तिर्य यावदन्तर्मनुष्यक्षेत्रं मनुष्यक्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह-'अड्डाइज्जेसु' इत्यादि, तथा 'तं चेव विउलमई अड्डाइज्जेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ' त्ति तत्र 'तं चेव' त्ति इह क्षेत्राधिकारस्य प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारं क्षेत्रमभिगृह्यते। तत्राभ्यधिकतर-कमायामविष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरक' निर्मलतरकं वितिमिरतरकं तु तिमिरकल्पत-दावरणस्य विशिष्टतरक्षयोपशमसद्भावादिति, तथा-'कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेज्जइभागं उक्कोसेणवि पलिओवमस्स असंखेज्जइभागं जाणइ पासइ अईयं अणागयं च, तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ' कियन्नन्दीसूत्रमिहाध्येयम् ? इत्याह-'जाव भावओ' ति भावसूत्रं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003595
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages600
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy