________________
परिशिष्ट - ५ : श. ८ : उ. २ : सू. १२९-१४३
विभङ्गाभावात् शेषाणां चावधेर्विभङ्गस्य वा भावात्। 'जोइसिए' त्यादि, एतेषु हि सञ्ज्ञिभ्य एवोत्पद्यन्ते तेषां चापर्याप्तकत्वेऽपि भवप्रत्यय-स्यावधेर्विभङ्गस्य चावश्यम्भावात्
त्रीणि
ज्ञानान्यज्ञानानि वा स्युरिति ।
८/१३०. 'नोपज्जत्तगनो अपज्जत्तग' त्ति सिद्धाः ॥
भवस्थद्वारे...
८ / १३१. 'निरयभवत्था ण मित्यादि, निरयभवे तिष्ठन्तीति निरयभवस्था:- प्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकास्त्रिज्ञाना द्वयज्ञानास्त्र्यज्ञानाश्चोक्तास्तथा वाच्या इति ॥ भवसिद्धिक द्वारे
८/१३५. 'जहा सकाइय' त्ति भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्भजनयैव व्यज्ञानाश्च वाच्या इति । ८/१३६. अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् सदा मिथ्यादृष्टित्वात्तेषामत उक्तं 'नो नाणी अन्नाणी' त्यादीति || सञ्जिद्वारे
८ / १३८. 'जहा सइंदिय'त्ति ज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीणि तथैवेत्यर्थः । 'असन्नी जहा बेइंद्रिय' त्ति अपर्याप्तकावस्थायां ज्ञानद्वयमपि सास्वादनतया स्यात् पर्याप्तकावस्थायां त्वज्ञानद्वयमेवेत्यर्थः ॥ लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह -
४८८
८ / १३९. 'कतिविद्या ण' मित्यादि, तत्र लब्धिः - आत्मनो ज्ञानादिगुणानां तत्तत्कर्मक्षयादितो लाभः । सा च दशविधा, तत्र ज्ञानस्य विशेषबोधस्य पञ्चप्रकारस्य तथाविधज्ञानावरणक्षयक्षयोपशमाभ्यां लब्धिर्ज्ञानलब्धिः एवमन्यत्रापि, नवरं च दर्शनं रुचिरूप आत्मनः परिणामः चारित्रं चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः तथा चरित्रं च तदचरित्रं चेति चरित्राचरित्रं संयमासंयमः तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः, दानादिलब्धयस्तु पञ्चप्रकारान्त, रायुक्षयक्षयोपशमसम्भवाः, इह च सकृद्भोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, स च वस्त्रभवनादेः, दानादीनि तु प्रसिद्धानीति तथा इन्द्रियाणां स्पर्शनादीनां मतिज्ञानावरण क्षयोपशमसम्भूतानामे के न्द्रियादिजातिनामकर्मोदयनियमित क्रमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः ॥
ज्ञानलब्धेर्विपर्ययभूताऽज्ञानलब्धिरित्यज्ञानलब्धि
अथ
निरूपणायाह
८/१४१. 'अन्नाणलद्धी' त्यादि ।
८/१४२. 'सम्मदंसणे' त्यादि, इह सम्यग्दर्शनं मिथ्यात्वमोहनीय
१. परिहारिकाणां तपो जघन्यं मध्यमं तथैवोत्कृष्टं । शीतोष्णवर्षाकाले धीरैः प्रत्येकं भणितम् ॥ १ ॥
तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठं तु भवति मध्यमः । इहाष्टम उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥
Jain Education International
भगवती वृत्ति
कर्माणुवेदनोपशम १. क्षय २ क्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः सम्यग्मिथ्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ॥
८ / १४३. 'सामाइयचरित्तलद्धि' त्ति सामायिकं-सावद्ययोगविरतिरूपं एतदेव चरित्रं सामायिकचरित्रं तस्य लब्धिः सामायिकचरित्रलब्धिः, सामायिकचरित्रं च द्विधा- इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरं तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति यावत्कथिकं तु यावज्जीविकं, तच्च मध्यमवैदेहिकतीर्थङ्करतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापि यावज्जीवितया प्रतिज्ञानात् तस्यैव चोपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोपः ?, अत्रोच्यते, अतिचाराभावात् तस्यैव सामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन सञ्ज्ञामात्रविशेषादिति । 'छेओवद्वावणियचरित्तलद्धि' ति छेदे - प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयंसाधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः तच्च सातिचारमनतिचारं च, तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामितीर्थं सङ्क्रामतः पञ्चयामधर्मप्राप्तौ, सातिचारं तु मूलगुणघातिनो यवतारोपणं तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश्छेदोपस्थापनीयचरित्रलब्धिः परिहारविसुद्धियचरित्तलद्धि' ति परिहारः- तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं शेषं तथैव एतच्च द्विविधं - निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपि निर्विशमानकम्, आसेवितविवक्षित चारित्रकायास्तु निर्विष्टकायास्त एव निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः एतेषां च निर्विशमानकानामयं परिहार:
'परिहारियाण' उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणियो धीरेहिं पत्तेयं ॥ १ ॥ तत्थ जनो गिम्हे चउत्थ छठ्ठे तु होइ मज्झिमओ । अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥ २ ॥ सिसिरे उ जहन्नाई छट्टाई दसमचरिमगा होंति । वासासु अट्टमाई बारसपज्जन्तओ इ ॥ ३ ॥ शिशिरे तु जघन्यादिषु षष्ठाद्यं दशमचरमं भवति । वर्षास्वटमादि द्वादशमपर्यन्तं नयति ततः ॥ ३॥ पारणके आचाम्लं पञ्चस्वेकस्य ग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनमाचामाम्लमेव कुर्वन्ति ॥ ४ ॥
For Private & Personal Use Only
www.jainelibrary.org